SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ तिलकमअरी Vvvvvvvv 10 कादम्बरीसहोदर्या सुधया वैबुधे हृदि । हर्षाख्यायिकया ख्याति बाणोऽब्धिरिव लब्धवान् ॥ २७ ॥ माघेन विनितोत्साहा नोत्सहन्ते पदक्रमे । .. स्मरन्ति भारवेरेव कवयः कपयो यथा ॥ २८ ॥ निरोद्धं पार्यते केन समरादित्यजन्मनः ।। प्रशमस्य वशीभूतं समरादित्यजन्मनः ॥ २९ ॥ स्पष्टभावरसा चित्रैः पदन्यासैः प्रनर्तिता । नाटकेपु नटस्त्रीव भारती भवभूतिना ॥ ३० ॥ दृष्ट्वा वाक्पतिराजस्य शक्ति गौडवधोद्धराम् । बुद्धिः साध्वसरुद्धेव वाचं न प्रतिपद्यते ॥ ३१ ॥ भद्रकीर्तेभ्रमत्याशाः कीर्तिस्तारागणाध्वनः ।। प्रभा ताराधिपस्येव श्वेताम्बरशिरोमणेः ॥ ३२ ।। समाधिगुणशालिन्यः प्रसन्नपरिपक्त्रिमाः । यायावरकवेर्वाचो मुनीनामिव वृत्तयः ॥ ३३ ॥ सूरिर्महेन्द्र एवैको वैबुधाराधितक्रमः । यस्यामोचितप्रौढिकविविस्मयकृद्वचः ॥ ३४ ॥ स मदान्धकविध्वंसी रुद्रः कैर्नाभिनन्द्यते । सुश्लिष्टललिता यस्य कथा त्रैलोक्यसुन्दरी ॥ ३५ ॥ सन्तु कर्दमराजस्य कथं हृद्या न सूक्तयः । कविस्त्रैलोक्यसुन्दर्या यस्य प्रज्ञानिधिः पिता ॥ ३६ ॥ केचिद् वचसि वाच्येऽन्ये केऽप्यशून्ये कथारसे । केचिद्गुणे प्रसादादौ धन्याः सर्वत्र केचन ।। ३७ ।। अस्त्याश्चर्यनिधानमर्बुद इति ख्यातो गिरिः खेचरैः कृच्छाल्लङ्घितदिग्विलजिशिखरग्रामोऽग्रिमः क्ष्माभृताम् । मैनाकेन महार्णवे हरतनौ सत्या प्रवेशे कृते . येनैकेन हिमाचलः शिखरिणां पुत्रीति लक्ष्योऽभवत् ॥ ३८ ॥ वासिष्ठः स्म कृतस्मयो वरशतैरस्त्यग्निकुण्डोद्भवो भूपालः परमार इत्यधिपतिः सप्ताब्धिकाञ्चर्भुवः । अद्याप्युद्गतहर्षगद्गदगिरो गायन्ति यस्याबुदे - विश्वामित्र जयोजितस्य भुजयो विस्फूर्जितं गुर्जराः ॥ ३९ ॥ तस्मिन्नभूद् रिपुकलत्रकपोलपत्रवल्लीवितानपरशुः .परमारवंशे । श्रीवैरिसिंह इति दुर्धरमैन्यदन्तिदन्ताग्रभिन्नचतुरर्णवकूलभित्तिः ॥ ४० ॥ 20 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy