SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३३२ शान्त्याचार्य-शानकलश-विरचितम् शा०टि० २७३) अपचिति पूजाम् । विकुञ्चितं मीलितम् । महानर्थहेतुर्महान् बृहन् अर्थहै तुः प्रयोजनकारणम् ।। २७८) समानीय संयोज्य । अनुक्रोशो दद्या ।। २८६) विद्धरूप यथावस्थितरूपम् । द्विधापि सञ्चारिततारकस्य एकेन प्रकारेण व्यापारिततारकाभिधाननाविकस्य, अन्येन सञ्चारितनयनकनीनिकस्य ।।। २८८) विस्तारिका' तनुतूलिका ।। ता०टि० २७३) विगतयन्त्रणानि स्वेच्छयेत्यर्थः : विश्रम्भः 'वित्रम्भः केलिकल हे विश्वासे प्रणये वघे ।' [अनेकार्थ० ३।४८८] । [अत्र विश्वासः प्रणयो वा । ] खड्गधेनुकया शस्त्रि कया । स्पर्शजनपवनं जलस्पर्शनेन जनानां पावक्कम् । अपचिति: 'अपचितिः क्षये हानौ पूजायां निष्कृतावपि ।' [अनेकार्थ० ४।१०२ ] अत्र पूजायाम् ॥ २७४) परभृत् कोकिलः । विनिपात: यदने-[कार्थः-] विनिपातस्तु देवतः ।। व्यसने चावपाते च....' [४।१३०.-१३१] । अनुभाव्यबहुमाना प्रणामेन कृत्या एतां कष्टं साहयित्वाहं बहुमानार्थिनां जनानां मार्गे कृतः स्थापित इत्यर्थः । छलबाहिणि [इति सम्बोधनम् ॥ २७७) मुञ्च माम् [इति समर केतूक्तिः ।।। २७८) समानीय मीलयित्वा । अप्रभुः अग्रे त्वत्स्पृष्टया पृथ्वी मया दत्तेत्यर्थः । प्रेतनाथमुखं यममुखम् । एतया बन्धुसुन्दर्या । अनुक्रोश दयाम् ।। २७९) विहितापकारां पृथाभ्यर्थनाम् । अवधृतम् अवधारितम् ।। २८०) सितपतत्रिः हंसः ।। २८१) सम्भृतं पिण्डीभूतम् ।। २८२) निनादधीरां वाचमशृणवमिति सम्बन्धः । मैव्या सङ्गत्या । नदाधिराजः समुद्रः ॥ २८५) दूतमुखेन कुत्वा [ इत्यध्याहार्यम् ] । प्रतिश्रुत' प्रतिज्ञातम् । दण्डः सैन्यम् । वापजात० [वार्त-]या उपजात०] ।। २८६) तारकस्य [तारको] नाविकोऽक्षिकनीनिका च ।। २८७) संसक्त संलग्नम् । अभ्यासगतं निकटम् ।। २८८) नेत्रविस्तारिकायां गब्दिकायाम् । सेकयुद्ध छांडणउ । आशा मनोरथः, दिशश्च ।। (1) B1 °का. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy