________________
तिलकमञ्जरीटिप्पनकद्वयम्
शा०टि०
२६४) प्रमीतां मृताम् । आपीड्य गाढीकृत्य ||
२६५) कल्पनाय च्छेदनाय । कात्यायनि चामुण्डे ॥
२६९) अजलाद्रेणापि सम्पादितजलार्द्राकृत्यं यदजलार्द तेन कथं जलाद्रा ? यो जलसिक्तस्य' कार्य सम्पाद्यते, अन्यत्रातिशीतलामिति दृष्टव्यम् ॥
३३१
ता०टि०
२६४) प्रमीतां मृतान् । त्रपां लज्जाम् । अनुभावः प्रभावः ।।
२६५) निष्कासन सहान् निष्कासनसमर्थान् । कलावि० कलाई । परिकरः पलवटि । कल्पनाथ त्रोटनाय । निःश्रेणिका नीसरणि । मोह: मूर्च्छा । साध्वसात् भयात् । निधनं मरण । विमोहितया विमूढतया ; परिसर्पणेन कृत्वा विमोहितया च । कात्यायनी गौरी; यदने - [कार्थ :- ] 'कात्यायनी तु पार्वती ॥ काषायवस्त्रविधवाऽर्धवृद्धा महिलापि च ' [ ४| १७२- १७३) । पितृपते यम ( इति सम्बोधनम् ) । कृपणायां दीनायाम् । रुद्धगलरन्ध्रवेदनाविरसा रुद्धस्य गलरन्ध्रस्य वेदनया विरसा ॥
२६६) एकपद एव तत्क्षणादेव | बाष्प: अश्रुः ॥
२६८) कृत्स्नकरण० निखिलेन्द्रियः । लास्यं नृत्तम् । तदुपनीत० । तेन राज्ञा ( उपनीत ) ||
२६९) अध्यासिना व्यापकेन । अपसृत० गत । निषण्णं कुमारमद्राक्षमिति सम्बन्धः । चञ्चु० शुकचञ्चु । ईक्षणाभ्यां नेत्राभ्याम् । स्कन्धधमनिविधुरां ( धमनिः ) नाडिका ; यदने - ( कार्थ: - ) 'धमनी कन्धरा शिरा । हरिद्रा च... ' ( ३ | ४१२ - ४१३ ) | ( अत्र ) स्कन्धस्व धमनिः शिरा तया विधुराम् ( इत्यर्थः ) । सग्रथितं स्थितम् । मधुकृतः अलीन् । उपजातविश्वासवा निश्चित जीवतीति ॥
२७०) हृदयार्थम् अभिप्रायम् ||
२७१) निदानं कारणम् । अनभिलष्यं दुष्प्रापत्वात् [ इति भावः ] | सौकुमार्येण गात्रस्पर्शनेति सम्वन्धः । मज्ज० [ अ ] मज्जन् शब्दः पुल्लिङ्गः । आचरण समग्रस्यापीत्यर्थः । अवयवान् हस्तादीन् । निदर्शनं दृष्टान्तम् । निद्रालाभ: आदौ तावन्निद्रायामागतायां स्वप्नो लभ्यते [नान्यथा ] | भाविता तादात्म्य नीता । स्वेदसलीलेनापि दूयमाना प्रस्वेदे हि सति वस्त्रे लगत्यङ्गेन, यमति [च] ॥
२७२ ) अन्यथाभावमुपगता तत्स्पर्शनिमीलितेक्षणा । साध्वसं भयम् । अनुबध्यमाना सादरं पृच्छयमाना ||
(1) BBC drop ०सि० ( 2 ) B1 शीतलाकृतिं, and drop the rest.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org