________________
तिलकमञ्जरीटिप्पनकद्वयम्
शा०टि० अन्यत्र सर्पाणां गतीर्व्यवहारान् , गमनानि वा । मत्स्यादिरूपधारिणां सत्त्वानां चेष्टा एकत्र मत्स्यभक्षकस्वरूपधृतां सत्त्वानां प्राणिनां व्यापारान् , अन्यत्र मत्स्यमकरादिरूपभृतां जन्तूनां चेष्टितानि । नागरकवृत्तस्य [एकत्र] पोलधारणहेतुलोहमयगोलकवर्तनस्य, अन्यत्र नगरभवजनचरितस्य । विश्लिष्टानां सन्धिघटनासु एकत्र विरुद्धानां सन्धानयोजनासु अन्यत्र विश्लिष्टानां विघटितानां फलकानां सन्धियोजनेषु' । 'वंशसम्पत्तिः एकत्र कुल सम्प्राप्तिः, अन्यत्र वेणुश्रीः । परोपकारकरणेषु तत्परता एकत्र परोषकारेषु तन्निष्ठता, अन्यत्र प्रकृष्ट जलक्षेपण्याद्युपकरणेषु । त्वमपि गुणवती दोरकयुक्ता, अन्त्र 'कान्ति सुन्दरतादिगुणयुक्ता । गम्भीरा विस्तीर्णा, अन्यत्रालब्धमध्या । सकर्णा अग्रभागे कर्णद्वयसहिता, अशून्यचित्ता च । बहुलमा अनेकजनयोग्या 1 ° यज्ञयोग्या, बहुक्षान्तिश्च । स्थिरगतिः स्थिरस्वभावा, अन्यत्र'' अनुत्सेका । महा● महाद्रव्या, अन्यत्र महती। महापुरुषोद्वहनयोग्या एकत्र अनेकनरवहनयोग्या,13 अन्यत्रोत्तमपुरुषपरिणयनयोग्या । पात्र भाजनम् , अन्यत्र यानपात्रं, भवत्येव । हेलोत्तालचलनरणन्मुखरमञ्जरीया एकत्र 15लीलोत्सुकचलनशब्दायमानसशब्दाभरणसङ्घातया, अन्यत्र लीलोत्सुक पादशब्दायमान शब्दनूपुरया' । सलीलवलगत्तुङ्गतरपयोधरकलशया [एकत्र] सविलासचलद्बृहत्तरजलभृतकुम्भया, अन्यत्र सविलास वलन्महतरस्तनकुम्भया । मदरशाद् दर्शितासमअस. चेष्टया एकत्र 'मदवशान्ममावशाद् अनधीनत्वात् प्रकटितोच्छङ्खलचेष्टन या, अन्यत्र मत्तताव शेन 18मुद्यन्याऽन्यगमन मूढमूढया, मोहंगत ग च । 1 विभ्रमानातन्वानया एकत्र विविधान् भ्रमान , अन्यत्र विलासान् , विस्तारयन्त्या । उच्चपेनाऽमुना मीनध्वजेन20 ध्वज
ता०टि० कामश्च । कर्णधारिण्या सकया इत्यर्थः, सह कर्णधारेण च वर्तते (इत्यापि) । तारका नाविका कनीनिका च । मानिनि मानोऽहकारः, मान शास्त्रोक्तप्रमाण' च, विद्यते यस्याः, अयं मय्यनुरक्तो न वेति । पारि लवः चञ्चलः । परमान्तरङ्गालीभिः परमा अन्तरङ्गा आल्यः सख्यः (ताभिः), कल्लोलैश्च । उद्वेगावर्तम् उद्वेग एवावर्तः, प्रबल वेगश्चासौ वर्तश्च । कन्दर्पः कं पानीय तस्य दर्पः, कामश्च । वातैः पवनैः । दन्त पङक्तेः 'दन्त कास्तु बहिस्तिर्यक प्रदेशा निर्गता गिरेः' [अभिधानचिन्तामणिः ४।१००], दशनाश्च । भूभृतः राज्ञः, पर्वतस्य [च] ।
(1) Bi drops वा. (2) B' drops प्राणिनां. (3) Bc drop सन्धि. (4) B1 जोटनेषु. (5) BS वस०. (6) BS drop क.. (7) S कीर्ति. (8) S ०लघु (9) BBIS सून्य०. (10) B बह: BC drop यज्ञयोग्या. (11) B1 drops oत्र. (12) B1 अनुत्सुका. (13) B1 वावन० (14) BC अवयव (15) I drops .चलन...लीलोंत्सुक०; B1 वलन०. (16) BS सतनू पुरया: Bl drops शब्दनूपुरया. (17) BL drops •मपावशा०. (18) S मुह्याप्य०. (19) BBCS विभ्रमांस्तन्वानया. (20) C मौनध्वजध्वज.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org