SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३२४ शान्त्याचार्य-शानकलश-विरचितम् शा०टि० २३३) आवेगः खेदः ॥ २३४) जालम: असमीक्षितकारी । जालिको धीवरः । कर्णधारो नाविकः । 'एमि(?) [पतावि-]त्यादि। तन्निवर्तय तावदेनमित्यादिना युक्तिवचनेन मलयसुन्दरीमाह । प्रसादय प्रसन्नां कुरु । स्तावकैः [वचोभिः] स्तवन परैर्वचनैः । आचक्ष्व च ब्रहि च यत्समस्त वक्तुमिष्ट मनसि विद्यते । इयं नौः, मलयसुन्दरी च ; गोत्रदेवता कुलदेवी, इव उपासनीया सेवनीया सर्वदा, विशेषेण अतिशयेन, [अद्य] अधुना विषमजलदुर्ग पतितस्य । शमिताखिलत्वन्मनोदुःखसातकरुणया' नाशितसमस्तभवदुःखोपजातदयया; अनया नावा, मलयसुन्दर्या च ; कृतानुग्रहो व्रज निर्विघ्नम् इत्युक्तस्त या वसन्तसेनया ।। २३५) 'वक्तुमारभत-तामात्मनावं नौ व्याजेन च माम् । देवि हे नौ देव, अन्यत्र देवि स्वामिप्रिये । अनुरुध्यमानया अनुवर्तमानया । पृथुश्रोणि एकत्र विस्तीर्णमध्यस्तम्भे, अन्यत्र विस्तीर्णजघने । सर्वधीवराणाम् एकत्र आनाविनाम् , अन्यत्र बुद्धिप्रकृष्टानाम् । 1 °दूरदर्शिनां विप्रकृष्टद्रष्टणाम् , अन्यत्र सूक्ष्मदर्शिनाम् । भुजङ्गानां गतो: एकत्र 11षिड्गाणाम् ता०टि० २३३) असौ समरके तुः; मलयसुन्दर्या हरिवाहनस्याग्रे कथयन्त्या वचनम् । तदेव वचनम् । सानवः पुंक्लीवः [अयं शब्दः] । सः समस्केतुः । अनुबध्यमान: निषिध्यमानः ॥ बलवत् अत्यर्थम्, अतिशयेन । निदान कारणम् । सन्तर्पकः वर्धकः । आवेगेन त्वरया ।। २३४) स्थितिः अवस्थानम् । स्तावकैः स्तवनसूचकैः । निशमित श्रुतम् ॥ - २३५) सप्रश्रय सविनयम् । श्रोणिः नौपश्चाद्भागः । धीवराणां प्रज्ञावतां, मात्सिकानां च । प्राग्रहरः प्रधानः । दूरदर्शिनां दीर्घ दर्शिनाम् । भुजङ्गानां सर्पाणां, शृङ्गारिणां च । सत्त्वानां प्राणिनाम् । नागराकाः नाङ्गरकाणि, नगरे भवाश्च । चलन गमनं, क्रमौ च । पयोधरकलश० स्तनों, पानीयधरघट० च । मदवशात् मत्तः सकाशाद् अवशत्वं, हर्षवशाच; वशो वशत्वम् ; यदने-[कार्थः-] 'वशो जनस्पृहायत्तेवायत्तत्वप्रभुत्वयोः' [२।५६६] । अत्रायत्तत्व वशत्वम् । उच्चापेन उच्चा जापो यत्र, उत् (उद्गत) चाप यत्य च । मीनध्वजेन जलनिधिना, कामेन च । उत्कलिकाभि: ऊर्मिभिः, हल्लेखाभिश्च । मारोपद्रवः मरण', (1) BB1 एता०; S एना. (2) BCS एनाम्०. (3) BS drop oरी० (4) BCS drop च. (5) BCs drop च. (6) B1 मनसष्ट. () BIS वारुणया० (8) BS नासित.. (9) BBTS drop व. and read the rest as कुमारभवना० for तुमारभततामा० dropping ०१० of the lattar. (10) B1 ० दर्शनां. (11) B1 खिद्राणा ०; BS षिद्राणा-. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy