SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३२२ शान्त्याचार्य-शानकलश-विरचितम् शा०टि. २२१) प्रतिकर्म मण्डनम् । प्राजापत्याः सामान्याः । विश्रम्भ: विश्वासः सङ्गीतक प्रेक्षणकम् । क्षण: प्रस्तावः । कलाः काष्ठानि । मार्जनं भोजनम् । निचुलकः निउलकः । गिरिविहङ्गाः पर्वतागारपक्षिणः॥ २२३) सामाजिकाः सभ्याः । ध्रियते जीवति । सवित्री माता । अदृष्ट देव', कर्म वा । साधयिता साधयिष्यति । कृत पर्याप्तम् । 'चरमम् ( ? ) इति वचनस्य विशेषणम् ।। २२४) न्यश्चिता अधःखञ्चिता ॥ २२५) इभमृगेन्द्रचक्राध्यासिते सुराचल इव सिंहासने एकत्र करिसिंहसङ्घाताध्यारूढे, अन्यत्र गजसिंहधर्मचक्रयुक्ते ॥ ता०टि० ___ २२१) प्राजापत्या कौटुम्बिकसुता । विश्रम्भः स्नेहः । उद्भासिताः भणिताः । समाजः समूहः । क्षणः प्रस्तावः ॥ २२२) कलाः लयाः । निचुलकः णि उलओ । वेणुः वंशः । अग्रे गायनीगण गायनीगणस्याये। समकालचलितोभयपक्षताडितनितम्बावलम्बितगर्जन्मेघमुरभक्तितो दत्तसमहस्तैरिव समकालचलितरुभयपक्षस्ताडिता वादिता अदिकटकावस्थिता गर्जन्तो मेघा एव मुरजा मर्दलानि येस्तैः; अत एवोत्प्रेक्षा भक्तित इत्यादि । उत्पतद्भिः उच्छलद्भिः जलनिवहेन कृत्वा [इति यावत् ] मकराकरेण समुद्रेण । क्रमाहतानां समकालाहतानाम् ॥ २२३) अवसिते समर्थिते । रङ्गः नर्तनभूमिः । निस्तरङ्गः निश्चलः । केशहस्तः उच्छायः । शिक्षिता एष तेऽयम् [इति यावत् ]; शिक्षि धातुः; अत एव 'प्रयोगान् इति द्वितीया; 'केन' इत्यध्याहार्यम् । गतिः ज्ञानम् , उपायो वा । अपनपा अन्यतो लज्जा । प्रतिपन्नाः ज्ञाताः। जन्यते उत्पद्यते । अनुयुज्यतां पृच्छयताम् । ध्रियते विद्यते । शिखरात् 'गम्ययपः कर्माधारे' [सि० है० शब्दानु० २।२।७४] इति पञ्चमी। आविष्टः अधिष्ठितः आन्तवंशिकः अन्तःपुरहेतुकः । गुरुस्नेहो गरीयान् स्नेहो यस्य । जनः इतरः ।। २२४) प्रश्रयं विनयम् । अनूत्थितः पश्चात् [उत्थितः ॥ २२५) अदभ्र० अतनु० । चक्र० समूहः । हिरण्मये सौवर्णे ॥ (i) This word is not found in the text of the TM; Bc वरमम्. (2) BCS drop च०. (3) BT drops सिंहासने, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy