________________
तिलकमञ्जरीटिप्पनकद्वयम्
शा०टि.
२१६) बन्धुतेव बन्धुसमूह इव ! उधिन्वन्ती प्रीणयन्ती। जनता जनसमूहः । निष्पर्यायम् एककालम् ॥
२१७ सोपनिषदि सरहस्ये ; नाट्यवेदे नर्तनशास्त्रे । निघ्नतया परवशतया । प्रसाधक विभूषकम् । अापकम् उपाध्यायम् । इन्द्रियस्रोतसाम् इन्द्रिय नदीनाम् । स्मितं हासो, विकासश्च । वलितरङ्गितमध्यसरणि एकत्र वलिभिः वलित्रयेण, तरङ्गिता खचिता, मध्यसरणिः मध्यदेशो, +यस्निन् स तथोक्तः; अन्यत्र वलिता भ्रमिता, रङ्गिता च विस्तीर्णा च, मध्ये सरणिः मार्गो यस्य स तथोक्तस्तम् । उत्कलिका कल्लोलः, उत्कण्ठा च ।।
२१८) अभिजनः कुलम् ।। २१९) स्वैग स्त्रीसमूहः । प्रत्यादेश इव निराकरणमिव । आकल्प: वेशः ।।
२२०) उन्नाहः उन्नतिः । विशेषकः तिलकः । मत्तवारणम् एकत्र करिणम् , अन्यत्र आसनस्थानविशेषम्' ।
ता०टि. २१६) प्रसाधना मण्डनम् । धिन्वन्ती प्रीण यन्ती। जगौ गानं कृतवती । निष्पर्याय समकालम् ॥
२१७) निघ्नतया तत्परतया । पयोधर: स्तनः, मेघश्च । स्त्रोतः नदी । कुमुदविशदस्मित कुमु हानां, कुमुदवन । वलितरङ्गित० बलिः पुष्पोपहारः, [वलिः] उदरे रेखात्रयं च । उत्कलिका ऊर्मि, हल्लेखा च ।।
२१८) दिवसकरमण्डलस्य...सन्निहितपन्नगेश्वरश्वासपवनैः रविर्विशन्नेव पाताल शेषाहिश्वासरुपीडित इत्यर्थः । व्यञ्जनव्यजितविषादाभिः [व्यञ्जनानि चिह्नानि, [ते:] कादिभिः बहिरभिव्यक्तो विषादः [याभिः । अभिजनः कुलम् ।।
२१९) साध्वसं भयम् । करैः किरणः । प्रत्यादेशः प्रतिकृतिः । मेदिनीभृतां गिरीणाम् । दुर्वृत्तानां दुःशीलानाम् ॥
२२०) स्वापतेय द्रव्यम् । कुसुमपुर पाटलिपुत्रम् ॥
(1) BCS धिन्वती. (2) BCS श्रोतसा. (3) BL drops खचिता. (4) B1 अस्मिन्. (5) B1 भ्रामिता. (6) BCS drop स्ती०. (7) BC विशिवम्.
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org