________________
शान्त्याचार्य-शानकलश-विरचितम्
शा०टि० मुग्धता रूपेषु मनोज्ञता, न रतेपु मूढता। हरिद्वारागः हरिद्रारतत्व देहेषु शरीरेषु, न स्नेहेषु हरिद्रावद् रतत्वम् अस्थिरता । बहुवचनप्रयोगः जसादिप्रयुक्तिः, पूज्यनामसु गुरव इत्यादिषु, न परप्रयोजनाङ्गीकरणेषु नानावचनोच्चारणम् एकवचनेनैवाङ्गीकुर्वन्तीति । विभ्रमो रतेषु न चितेषु विभ्रमः विलासः, अन्यत्र भ्रान्तिः । वाजीकरणयोगोपयोग: शुक्रोपचयचूर्णभक्षणम् । पृष्ठ० इत्यादिश्लोकः-वलि: 'केशरचनाविशेषः ; श्रुतिः कर्ण; हसन्ति देदीप्यमानानि ; [चित्राणि मुक्ताफलानि येषां मुखकमलानामिति सम्बन्धः] द्विजाः दन्ताः; अञ्चित: खचितः, प्रशस्तो वा ॥७९॥
२१४) पूर्वापरदिगन् लब्धायतेः एकत्र आयतिः देयम् , अन्यत्र आशा । कटकविस्तार: एकत्र कटकः प्रस्थः, अन्यत्र सैन्यम् । अप्रयत्नभग्नसन्ततवधिष्णुभूभृत्तदुन्नतिना एकत्र भभूत गिरिः, अन्यत्र नृपाः। प्रसाधिता मण्डिता, आत्मायत्तीकृता च ।।
२१५) द्वितीयापि या द्वितीया द्वयोः पूरणी, सा कथम् एक शरीरम् १ अन्यत्र द्वितीया भार्या । सांवत्सरेण ज्यतिषिकेण ।।
ता०टि० प्रयोगः सप्तमधातूदेकापादनम् ; कामिभिः पुष्टीकरणार्थ क्रियते ओषधम् । परिमलवाही मुखानिलो मलयसमीरः यो मलयानिल इति प्रसिद्धः स तत्रत्यस्त्रीणामेव मुखानिलः; एवं सर्वेष वाक्येषु योजनीयम् । कलाकृतक० कलया कौशलेन यः कृतकः । जैत्रा तन्त्रसामग्री 'जि'-धातोरोणादिक अन् ; अन्यथा जैतैव. अण् प्रत्यये जैत्रीति स्यात् । मञ्जरीत निकानि मार्य एव तर्जनिकाः प्रथमाङगुल्यो येषु; अपरोऽपि यस्तजनां करोति स सशब्दमायामयति तर्जनीम् । ध्वस्तमानावलेपाः तजनाभयात् [इति यावत् ] । उपगृहनम् आलिङ्गनम् । वली केशरचनाविशेषः । त्वक् त्वचा । ई झण नेत्रम् ॥७९|| कुर्वाणास्तारकाभिः प्रणयमिव तारकाभिः सह स्नेहमिव कुर्वाणाः । केषु ? दस्तपादनखेषु ।।८।।
२१४) विस्फुर्जथुः वननिर्घोषः ।
२१५) भूयस्तया बाहुल्येन ॥४२॥ ललाटे सदृशद्युतित्वात् भालस्यातिगौरवादलक्ष्यमाणसुवर्णपट्टबन्धे ॥८४॥ द्वितीया कलत्रम् ॥
(1) S केस०. (2) B1 drops द्विजाः दन्ताः. (3) BCS drop खचितः. (4) BC drop त्. (5) B1 षिकः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org