________________
तिलकमञ्जरीटिप्पनकद्रयम
०दि०
२१२) मन्युः दैन्यम् । अनीषत्कराः अस्तोकक्रियाः ॥
२१३) कुलीरः कर्कटकः । प्रख्यः सदृशः [ अनवरत वहत्समुद्रयायीत्यादिविशेपणम् एकत्र वहन् नीयमानो यः समुद्रगन्तृलौकसङ्घातः, अन्यत्र वहन् गच्छन् यः समुद्रयायिजन सङ्घातः ; शेष ं तुल्यम् । नागवल्लीलालसा धननि उद्यानपालाश्च एकत्र करिणइव विलास - मन्थराः, अन्यत्र ताम्बूलीलम्पटाः । परमतज्ज्ञाः पौराः प्रामाणिकाश्च एकत्र अन्याभिप्राय वेदकाः, अन्यत्र बौद्धादिदर्शनज्ञातारः । सफलजातयः श्रोत्रिया गृहारामाश्च एकत्र सफलब्राह्मण्याः ३ अन्यत्र सफलजन्मानः, फलयुक्तमालतीवृक्षा वा । हरिद्रासान्द्ररुचयो रागिणः सुवर्णचम्पकस्तबक निचयाश्च एकत्र हरिद्रया, अन्यत्र हरिद्रावत् सरेन्द्रा बहला, रुचिः दीप्ति, येषां ते तथोक्ताः । प्रगुणविशिखा गृहनिवेशा: सुभटवाणधयश्च एकत्र प्राञ्जलरथ्याः, अन्यन्त्र प्रकृष्टबाणाः ; बाणधिः तूणीरः । बहुमालिकाः प्रसादाः प्रकृतयश्च एकत्र अनेक भूमिकाः, अन्यन्त्र नानामालाकाराः । सकुञ्चितालकाः प्रधानापणाः प्रमदाललाटलेखाश्च एकत्र कुविकासहित. तालकाः, अन्यत्र कुटिल केशसहिताः । सुराभिरामाभिरुचितकारिण्यः पण्यवनिताः पौरयुक्तयच एकत्र मदिराभिर्नूतनाभिश्च स्वार्थायोचितकरणशीलाः, अन्यत्र देवरमणीयप्रियतमकर्घ्यश्च ।
३१९
,
ता०टि०
२१२) व्यापत् व्याप्नोति स्म । मन्युः 'मन्युर्देन्ये क्रतौ कुधि' [ अनेकार्थ० २।३७९] । अत्र दैन्ये । सरितः नद्याः । अनीषत्काराः दुःशकाः । अराल० कुटिल० ॥
Jain Education International
२१३) जिन समस्तभुवनान्तःपुरा जितानि समस्तजगतां मध्ये पुराणि यया, जितानि ] समस्तभुवनानाम् अन्तःपुराणि यया च । सकल चक्रवर्तिनः निखिल भूचक्रे भूगोले वर्तत इति विश्वभूचक्रवर्ती च । अन्तरिक्षेण गगनेन । कुलीर: कर्कराशिः । परिखाखति । प्रख्यस्य कुल्यस्य । स्फार्ति वृद्धिम् । विधृतत साधर्म्यहम्र्म्यावलीधृतोभयविभागः विधृत' तटसाधर्म्य कुलतुल्यत्वं यया हर्म्यावल्या तया धृतमुभयोर्विभागो येषां हृदानां, [तैः ह्रदैः ] | विपणि० हट्ट | विषयः देशः । नागवल्लीलालसा नागकुमारवत् लीलाभिरलसाः, नागवल्लीपु लालसाश्च । परमतज्ञाः पराभिप्राये, परदर्शनज्ञानश्च । सकलजातय: जातयश्चरणाद्याः, मालत्यश्च; सफलाः जातीफलकलिता इत्यर्थः । हरिद्रासान्द्र० हरिद्राभिः हरिद्रावत् [च] प्रगुणविशिखाः सरलप्रतोलीकाः, सरलबाणाश्च । बाणधयः भस्रकाः । बहुमालिका: माला निक्षण:: ( ? ) [ = उपरितलभागाः ], मालिकाः पुष्पाजीवकाच । सुराभिरामाभिरुचि कारिण्यः मद्यैः आमैः नवैः प्रीतिकारिण्यः वेश्याः, देववत् अभिरामं रुचितं भर्तारं कुर्वन्त्यः च । प्रायं तुल्यं, बहुलं [च] | मुग्धता रम्यत्वं मूढत्वं [च] । हरिद्वारागः क्षणमात्रानुरागः | विभ्रमः 'विभ्रमः शोभायां संशये हावे' [ अनेकार्थ० ३।५०३-५०४ ] | कामसूत्र' स्मरस्य सूत्रणा । वाजीकरण( 1 ) B 0 क्रिया. (2) B1 ०विशेषणानि . ( 3 ) B1 ० ब्राह्मणाः.
For Private & Personal Use Only
www.jainelibrary.org