________________
शान्त्याचार्य-ज्ञान कलश-विरचितम्
शा०टि० २०१) उदर्चिः अग्निः ॥७४॥ 'जानीथ' इत्यादिश्लोकः-श्रुतशालिनौ 'श्रुत शास्त्र, श्रवण च । प्रकृत्यर्जुनी स्वभावेन सरले 'धवले । कर्णान्तिकं श्रवणसमीपम् ।।७।। - २०९) दत्ते पत्रम् इत्यादिश्लोकः-कुवलयतते: नीलोत्पलराजेः । चक्षुः नेत्रम् । अस्या दत्ते पत्रम् ; किमुक्तम् ? तदनुकारि नयनम् । कुम्भावभौ 'कुचपरिकरः पूर्वपक्षीकरोति कुचपरिकरः स्तनविस्तरः कुम्भौ [ऐभौ] गजसत्कौ पूर्वपक्षीकरोति अनुकरोतीत्यर्थः । अनुवदति अनुकरोति । दूषयति अनुकरोति ; वादिपत्रव्यवस्थया काव्यकरणमिदम् ; केवलं सर्वत्र सादृश्यं प्रतिपाद्यम् ।।७६।। अस्याः० इत्यादिश्लोकः-कमलैः हरिणैः, पद्मश्च । वनेषु अरण्येषु, जलेषु च ॥७७||
२११) मुक्तेव देवारण्यवंशे मुक्ताफलमिव सुरवन वेणौ, अन्यत्र देवारण्यसम्बन्धिनि कुले ।
ता०टि० २०१) ग्रहः राहुः । ऋक्षपतेः चन्द्रात् ; चन्द्रे हि लक्ष्मीर्वसति । उदचिः अग्निः । श्रुत सिद्धान्तः, श्रवणं च । प्रत्यर्जुनी स्वभावेन सरले । श्रिणी श्रीके ।।
२०२) अपवारित. आच्छादित० । तनीयसा सूक्ष्मेण । कृतम् अलम् । वाहिनीवाहाः सेनाश्वा । निर्झरिणा विस्तारिणा ।।
२०३) कृतविवर्तना तिर्यग्वलिता ।।
२०४) न सा 'ना ईषदर्थे सादृश्ये तद्विरुद्धतदर्थयो । व्यतिक्रमे स्वरूपार्थ निषेधाभावयोरपि ॥' [अनेकार्थपरिशिष्ट० १६-१७ । अत्र स्वरूपे । द्राधिमा दीर्घत्वम् ।।
२०७) अवनितलनिषष्णनिःसहावस्थिते: अवनितलनिषदनेन निःसहावस्थितिर्यस्य ।। २०८) कणिका बीजकोशः॥
२०९) ईक्षण' नेत्रम् । तुल्य सममेव । बद्धा...कमलै....वनेषु स्थिति: .....कमल कलोम्नि भेपजे ।। पङ्कजे सलिले ताने कमलस्तु मृगान्तरे । कमला श्रीवरनार्यो...' अनेकार्थ ३।६६४-६६५] । अत्र हरिणैः । वनेषु जले ॥७७||
२१०) कतिचित्पदानि यावत् । उपनीत० ढौकित० । अपवजितैः दत्तः । उपस्पर्शनम आचमनम् ॥
२११) यता मनां वतिनाम् । मुक्तेव मौक्तिकमिव । गर्हणा निन्दा । फलम् ऐहिकं, पारलौकिकं वा । वैखानसः वानप्रस्थः ।। . (1) BC श्रूत'. (2) BCS drop स्व०. (3) BC drop धवले. (4) C चर्जु०. (5) BC drop ०च०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org