SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरीटिप्पनकद्वयम् शा०टि. २००) साधुलोकेनेव स्निग्धत्वचारुणा लोकसुभगेन एकत्र स्निग्धत्वमनोज्ञेन जनसौभाग्यवता, अन्यत्र स्नेहवच्चमणा रक्ततेजसा । शुण्डारः ह्रस्वा शुण्डा । ['शुण्डालः प्रश स्तशुण्डा ] । अभिनवागतेनाक्षपटलमास्थाय कायस्थेन तरुणिम्नाऽसिताक्षरश्रेणिमिव दर्शि. ताम्' एकत्र कायस्थेन अक्षरजीविना, नूतनागतेन *अक्षपटलं क्षरणस्थानम् अध्यास्य; अन्यत्र तारुण्येन शरीरवर्तिना, अभिनवायातेन, अक्षपटलम् इन्द्रियसङ्घातम् अध्यारुह्य । रेखा राजिः, उभयत्र.पि । शारद्वयेन शारियुग्मेन । वैकक्ष्य स्कन्धलम्बिसूत्रम् । ऊर्मिका मुद्रिका । घटितविनीलबाह्यपत्रपरिपाटि इति निर्मितक्रियाविशेषणम् । तत्कालमजितबलेन निर्जित्यापित कन्दर्पण हासमिव हार हारमुरसा स्वधामधवलितस्तनकलशकैलाशभूधरम् हार मुक्ताकलापम् ; की दशमिव ? हासमिव ; किम्भूतं हासम् ? हार शङ्करसत्कम् ; किम्भूतम् १ अर्पितम् ; केन ? कन्दर्पण कामेन ; किं कृत्वा ? निर्जित्य अभिभूय ; कथम् १ तत्कालं तस्मिन् काले; कीदृशं हार हास च १ स्वधाम्ना स्वतेजसा, धवलितः, स्तनकलशावेव स्तनकलशवद् वा कैलाशभूधरो' येन स तथोक्तस्तम् । 'रुचको मणिः ।। ता०टि. २००) कृतो वस्थानां बालिकामपश्यमिति सम्बन्धः । तनु सूक्ष्मः । कुसुमसायक: कामः । आईशल्याभिः शल्यं शस्त्रम् ; यदने-[कार्थः]-'शल्यं शस्त्रालाकयोः [२।३८६-८७] । ततो भल्लीभिरित्यर्थः । स्निग्धचारुणा स्निग्धाकृतिना स्निग्धत्वेन स्नेहेन भव्येन । सफेनोद्गमधाराभिः नः [इत्यर्थः] परिणाहिना विशालेन । तूणीरद्वयेन पत्रिरक्षणार्थकभनक [द्वयेन] । वेला वेलापि समुद्रसीमनि । प्रवृद्धस्य [प्रवृद्धिः] अम्भसां वृद्धिः । अक्षपटलम् इन्द्रियसमूह, सन्धिविग्रहकं च । कायस्थेन काये तिष्ठतीति, अक्षरजीवकाश्च । रतिपतिः स्मरः ।। अक्षरश्रेणिमिव दर्शिताम् अभिनवो हि लेखकः स्वकीयाक्षराणि दर्शयति । अधिकतनोः अति. कशस्य । अंसः स्कन्धः । द्विगुणितप्रलम्बचम्पकमालम्बवैकक्ष्यकां द्विगुणीकृतः प्रलम्बश्चम्पकहार एव वैकश्यकं यस्याः ताम् । मरकतोर्मिकारागः नीलरागः । हासमिव हार हरस्याय हारः हासः । छायागताः प्रतिबिम्बताः । अभिमुखं सम्मुख मुखमभिमुखे इत्यर्थः । रुचक [शब्दः] शोभावाची ॥ (1) This is the corrected reading by the editer of the Botad edn. (2) Bt drops दर्शिताम्. (3) B' drops नूननागतेन. (4) BCS क्षपटलं. (5) B1 करण०. (6) BCS चैकक्षक. (7) Bा निमित्तं. (8) BCS drop स्तनकलज्ञवद् वा. (9) BCS कैस०. (10) BC भेचक्येर्मणे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy