________________
तिलकमञ्जरीटिष्पनकद्वयम्
३०३ शा०टि० सेविनः । उत्तमप्रकृतेरिव महाजनपदानुसारिणः एकत्र पूज्यजनस्थानानुसृतस्य, अन्यत्र बृहद्देशानुगामिनः । महामुनेरिव फलमूलकन्दैः कल्पिताभ्यवहारस्य उभयत्रापि समानम् । अमरस्येव सङ्कल्पमात्रोपनतदिव्याहारस्य एकत्र चिन्तनमात्रोपगतामृताहारस्य, अन्यत्र चिन्तनमात्रागतचारुभोजनस्य । अनेरिव वारिभिः धौतपादस्य एकत्र 'प्रक्षालितप्रत्यन्तपर्वतस्य, अन्यत्र धौतचरणस्य । इष्टदेवतस्येव दर्शनानुरक्तजनेनापाद्यमानचित्तप्रसादस्य एकत्र दर्शन मतम, अन्यत्र अवलोकन'; शेष समानम् । प्रेतसाधकस्येव नक्तश्चराध्यासितासु भूमिषु कुशसंस्तराननुचितानलकुर्वाणस्य एकत्र नक्तश्चराः राक्षसाः, अन्यत्र सिहोदयः ; [एकत्र] भूमिपु
स्मशानेषु, अन्यत्र धरासु ; एकत्र संस्तरान् कुर्वाणस्य विधानस्य, कथम् १ अनुचितानलं चिताग्नि लक्ष्यीकृत्य, अन्यत्र संस्तरान् अनुचितान् अयोग्यान् , अल कुर्वाणस्य भूषयतः । +विषयभीतपल्लीपतेरिव प्राकृतजनदुरारोहान् पल्लयङ्कानधिशयानस्य एकत्र सामान्यपुरुषदुःखारोहान् 5 पल्ल्युत्सङ्गान् , अन्यत्र नीचजनदुरारोहान् महाशय्या अधिशयानस्य आरो. हतः । 'बालचन्दनवृक्षखण्डस्येवाध्वगमितमार्गसहस्य शिशिरसुरमे: एकत्र पथिकक्षुण्णमार्ग. समर्थस्य, तथा शीतलसुगन्धेः; अन्यत्र 'मार्गनीतमृगशिरःपौषमाधफाल्गुनचैत्रवैशाखस्य ॥
१६०) 1°अविरतास्फालिततर इततिना तरलितघालपुष्करेण 'प्रबलसीकरासारसिक्तककुभा वनद्विरदयूथेनेव सद्यो जलादुत्तीर्णन मरुता सच्यमानं समानि विशेषणानि ; केवलमेकत्र तरलितबालपुष्करेण चञ्चलीकृतपुच्छशुण्डाग्रेण, अन्यत्र तरलित बालपनेन । उपशल्य समीपम् ।
ता०टि० अभ्यवहार: भोजनम् । पादाः पर्यन्तपर्वताः, चरणौ च । दर्शनम् अवलोकन', धर्मश्चः यदने-[कार्थः-] 'दर्शन दर्पणे धर्मे विलब्धौ बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि.... [३। ४१०] । मार्गसहः [सहा ऊर्वो; यद्-] अने-[कार्थः-] 'सहोळ सहदेवायाम्' [२।६०७ । अध्वगमित मार्गसहस्य शिशिरसुरभेः अध्वगैर्मिता परिच्छिन्ना मार्गसहा मार्गपृथ्वी यस्य सः । अथवा मार्गोऽन्वेषणम्; यदने -[कार्थ--] 'मार्गो मृगमदे मासे सौम्यःऽन्वेषणे पथि' [५।४२] । ततोऽल्पत्वाद् अध्वगानां मित मार्ग सहते [इति । अचि रूपम् । अपरपक्षे ऋतुविशेषाः । त्रिदशसिन्धु: गङ्गा ॥
१६०) महाभोगपरिसर सरोविशेषणम् । तरलितबालपुष्करेण तरलिते बालपुष्करे पुच्छशुण्डाने येन तेन, यदने-[कार्थः-] 'बालोऽज्ञेऽश्वेभपुच्छ योः । शिशौ ह्रीबेरकचयोः' [२।२०५]; पुष्कर कमलम् । सूच्यमान' निरन्तराभिः वनराजिभिः [इति सम्बन्धः । अभंलिहशिखरोपशल्यया अभ्रलिह शिखरपात यस्याः [सा, तया । प्रतिबिम्ब प्रतिच्छन्दकः ।
(1) BE ०पर्यन्त०. (2) B1 इमशानेषु. (3) BI लक्षी०. (4) B1 . भिल्ल० (5) B1 पल्ल्या०; BCS पल्ली उत्संगान्. (6) B1 स्यस्या (7) B1 ० षण्ड ०. (8) B1 .क्षुन्न ०. (9) B1 सिरः०. (10) BCS drop अ० (11) BCS drop प्रबल ० .... पुष्करेण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org