________________
३०४
शान्त्याचार्य-ज्ञानकलश-विरचितम्
शा०टी० पारीन्द्रः अजगरः । अच्युता अच्छुप्ता । जग्ध भक्षितम् । सौमित्रिचरितमिव विस्तारितोमिलास्यशोभम् एकत्र विस्तारितलक्ष्मणभामुखविभूषम् , अन्यत्र विस्तारितकल्लोलनर्तनशोभम् । विलासिनीगमनमिव कलहंसकलापकृतक्षोभम् एकत्र मधुरनूपुरशब्दविहितक्षोभम् , अन्यत्र मघुरहंसशब्दकृतक्षोभम् । कुलाचलत्रयमिव केसरिमहापद्मतिगिच्छिभूषितम् एकत्र केशरिमहापद्मतिगिच्छिना हृदालङ्कृतम्, अन्यत्र केशरवबृहत्कमलकिञ्जल्कशोभितम् ।
गगनमिव मकरमिथुनाध्यासितम् एकत्र मकरमिथुनराशिसङ्गतम् , अन्यत्र मकरजलचरयुगलाध्यासितम् । दिनकरमिधानेकपत्ररथचकाक्रन्दमुखरिताम्बरम् एकत्र नानाश्वस्यन्दनरथाङ्गचीत्कारमुखरीकृताकाशम् , अन्यत्र नानापक्षिसङ्घातमुखरितगगनम् । 'रणाङ्गणमिवोत्कटशारा'. रिबलाकाण्डकबरम् एकत्रोत्कट बाणशत्रुसैन्यासमयकव॒रम् , अन्यत्रोन्मदा[रा-]टिबलाकापक्ष्यण्डकोष्ठम् 1 । मद्गुरुचितमपि न मद्गुरुचितम् मद्गुः जलवायसः; यदि मद्गु. शब्दितशोभित कथं न मद्गुरुचितम् ? अन्यत्र नम्रमहावृक्षव्याप्तम् । बकैरवभासितमपि न बकैरवभासितम् यदि 12 बकोटैः शोभित, कथं न 13 बकोटैः शोभितम् ? अन्यत्र नूतनकुमुदभूषितम् ; [विरोधपरिहारे तु न बकैरव०' इत्यत्र बवयोरभेदेन 'नवकैरवः' इत्यवगन्तव्यम् ] । विषकसदनमपि 1+अमृतमय; विरोधः प्रकट एव; परिहारस्तु जलैकस्थानम्, अमृतेनैव निवृत्त मुस्वादुजलत्वातू । शङ्खनिधानमपि स्थपित'; यदि शङ्खनिधिः, कथं स्थैर्योपेतः १ अन्यत्र कम्बुनिधिः स्थिरं च । विबुधानां बुधानामपि मानसमधःकुर्वाण विबुधानां देवानां विदुषां च सम्बन्धि मानस सरः चित्त च अधःकुर्वाण तिरस्कुर्वाणम् ।।
ता०टी० अम्बरतलस्य विस्तीर्णत्वात् [इति सूच्यम् ] सुत द्रुतम् । अदद्धाभ्रदहनः विद्युत् । अद्रभ० भिंगु (१)। रोधसः तटस्य । वियता खेन । प्रतिमा प्रतिबिम्बम् । पल मांसम् । विप्रलभ्यमान: कच्यमानः । प्रतिफलनच्छलेन प्रतिबिम्बच्छलेन । अत्यायते: दीर्घः । राजहंस: उत्तमनृपः, हंसश्च । नितम्बः कटकः; कटीपश्चाद्भागश्च । चन्द्रकित चन्द्रकयुतम् । आस्फो. टन बर्करिकास्फालम् । प्रतिवेलम् अनुक्षणम् । तिमिः मत्स्यः । ताण्डव नृत्तम् । पतत्री पक्षी । धरणमहिषी वैरोदया। चक्रायुधा चक्रेश्वरी । चक्रायुधगरुडः चक्रेश्वर्या गरुडो वाहनम् । [ सौमित्रि: लक्ष्मणः ] ऊर्मिला तद्भार्या । लास्यं नृत्तम् । कलहंसकलापकृतक्षोभं हंसकन् पुरशब्देन कृतक्षोभम् । कुलाचलत्रय० नीलवन्तो महाहिमवन्तो निषध इति ; यथाक्रम तेषु हृदाः । केसरिमहापद्मतैगिंच्छि० तिगिंच्छि एकत्र ह्रदः, अन्यत्र केसरसंयुक्तमहापद्ममधु ।
(1) This is a variant reading, the original one in the Critical Text of the TM being फणीन्द्र (2) B1 drops अजगर:. (3) B1 तिगिन्छ.. (4) B1 तिरिञ्छिना. (5) BCS मिव. (6) Bt गगनमिवो०. (7) BCS drop ०श०. (8) BIBBS कवाम्. (9) B1 .द्भ.. (10)S न्मदाटि०. BC Oन्मदादि० Boन्मदा..... (11) BBICS पक्षिअंडक. (12) B1 बकै धैः. (13) B1 बकैः. (14) BC अनृतमय'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org