SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ शान्त्याचार्य-ज्ञानकलश-विरचितम् शा०टि. चरणपतनकष्ट' यस्याः सा तथोक्ता तया, अन्यत्र प्रियाल-पनस-पियगु-विभीतकवृक्षातनिष्ठया गरिष्ठया । धीरपुरुषतूण्येव गौरखराच्छभल्लशरभरोचितया एकत्र गौरहररिच्छशरभशोभितया, अन्यत्र ‘उज्ज्वलतीक्ष्णस्वच्छकुन्तबाणसङ्घातयोग्यया । जठरजीर्णानेकदिव्योषधिसमूहयापि ब्याधीनां गणैराक्रान्तया या किल उदरपरिणत नानादिव्योषधिसङ्घाता सा कथ रोगाप्ता १ अन्यत्र मध्यशीर्णानेकदिव्यौषधिसमूहया लुब्धकभार्यासमूहैाप्ता ॥ १५७) दुर्जात दुःखम् ॥ ..१५८) यावकरसस्येव वार वार लचितमहेलाधरस्य एकत्र आक्रान्तयोषिदधरौष्ठस्य, अन्यत्र अतिक्रान्तगुरुपर्वतस्य । मारुतेरिव क्रमेणोत्तीर्ण दुरवतारसिन्धोः एकत्र परिपाट्या उत्तीर्णदुःखावतारसमुद्रस्य, अन्यत्र उत्तीर्णदुरवतारसरितः;° मारुतिः हनूमात् । अग्न्याहिताग्नेरिव शुष्कपादपारण्याश्रयिणः एकत्र शुष्कवृक्षारणिकाष्ठाश्रितस्य, अन्यत्र शुष्कवृक्षकान्तार ता०टि० [गाढबद्धाः] ब्रह्मविष्णुहरा येन च । निरन्ध्व रुन्धताम् । लोचनांशुशारया [लोचना-1 जमालया वा पाठान्तरम् [varient reading] । प्रालम्बः हारः । श्वागणिकः व्याधः । दलितः मारितः । आच्छिन्नः उद्दालितः । बध्यमानमार्गणप्रहतमर्मद्वीपिमार्गया रुध्यमानो विद्धममणां द्वीपिनां मार्गों यस्यां सा । प्रियालापसफलीभूतपादपातनिष्ठया मधुरभाषणेन सफलीभूता पादपातस्य निष्ठा यस्याः, तया : अन्यैरपि फलितैः वृक्षः गरिष्ठयाऽविरलया वा । तूण्य० जम्भक । गौरखराच्छभल्ल शरभारोचितया गौरः विशुद्धः ; यदने-[कार्थः --] 'गौरः श्वेतेऽरुणे पीते विशुद्ध चन्द्रमस्यपि' [२।४२५]; लोहदोषरहिताः विशुद्धाः; विशुद्धाः खराः कठोरा अच्छाः किट्टरहिता भल्ला भल्लयो येषु शरेषु. तेषां भरः समूहः, तेन उचितया । भल्लशब्दो भल्लीवाची पुनपुंसकः (१ स्त्रीपुंसकः); यत् [हैमलिङ्गानुशासने-] 'पटोलः कम्बलो भल्लो....' (स्त्रीपुंसाधिकारे ९]। गौरखरा अच्छभल्ला अक्षाः शरभाः, तैः दीप्तया । जठर० उदरपरिण० [ ? ] । व्याधीनां व्याधाना भार्याः व्याध्यः ।। १५७) दुजात व्यसनम् ॥ १५८) लवितमहेलाधस्य आक्रान्तनार्योष्ठस्य; लङ्घिता महान्त इलाधरा अद्रयो येन । सिन्धोः सिन्धुः] नदी, समुद्रश्च । अरण्याश्रयिण: अरणी, वन च । जनपदः देशः (1) BCS drop अतनिप्ठया. (2) Bf drops गरिष्ठया; BCS गरिष्टया. (3) B1 गौर. खगच्छभल्लशरभ०. (4) BCS drops उ०. (5) C abrupty drops the portion amounting to about one folio after दिव्यौप, and immediately begins with गरोहान पल्यवान् cic. obviously the scribe has missed the correct page of the folio and begun with the wrong one. (6) B . दुःखावतार ०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy