SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ तिलकमअरीटिप्पनकद्वयम् शा०टि० १५२) वासतेयी रात्रिः । 'कार्माः कर्मकराः । इह लेखे । निसर्गविमलाभ्यः कलाभ्यः कला षोडशो भागो, विज्ञान च । उपधिः माया । तत्कतुं तत् गमनम् । तत् तस्मात् ।। १५३) परिणतज्योतिष ज्योतिः दीप्तिः, ज्योतिः शास्त्रं च ।। १५४) सौधांशवे' चान्द्रे । संवलित मिश्रितम् । विशिखा रथ्या । अर्चा प्रतिमा । १५५) जम्भारिः इन्द्रः । प्रतिपन्नदक्षिणवाममार्गपरैः पर शिवं शंसद्भिरभिप्रेतसाधकैः शैवैरिव प्रधानशकुनैः एकत्र शैवेः कीदृशैः ? प्रतिपन्नदक्षिणवाममार्गपरैः अभ्युपगतोऽनुकूलो वाममार्गो यस्तेन पृणन्ति तर्पयन्ति ये ते तथोतास्तैः; तथा पर प्रकृष्ट, शिव शङ्कर, शंसद्भिः कथयद्भिः स्तुवद्भिर्वा,' अभिप्रेतसाधकः अभि समन्तात् सामीष्ये प्रेत वेताल साधयन्ति ये ते तथोक्तास्तैः; अन्यत्र शकुनैः आश्रितदक्षिणवाममार्गसव्यपथनिष्ठः, तथा कल्याण परमं कथयद्भिः , अभीष्टार्थकारकैः ।।। १५६) काहलः अव्यक्तः । उपहारः बलिः । त्रयीभक्तेनेव गाढाञ्चितहिरण्यगर्भकेशघेशेन एकत्र अत्यर्थपूजितब्रह्मविष्णुशङ्करेण, अन्यत्र निबिडाबद्धसुवर्णमध्यकचस्थानेन । कण्ठीरवः सिंहः । सापराधवध्वेव प्रियालपनसफलीभूतपादपातनिष्ठया एकत्र प्रियालापेन सफलीभूत ता०टिक १५२) वासतेयी रात्री । पुनरुक्त वारंवारम् । कार्मनिर्मितार्ण कार्मः] कर्मशीलः; 'कर्मशीलस्तु कामः' इति नाममाला-[अमि० चिन्ता० २।११८] वचनात् । अधिगतगाढपाण्डिम्नि नीलत्वात् [इत्यर्थः] । पर्यटनटविं अवनि वा [variant reading] । अनवधृत० अज्ञातः । १५३) प्रयाणशुद्धिमिव अद्य दिने प्रयाण' भव्यमभव्यं वा । परिणतज्योतिषं परिणतं ज्योतिर्यस्य त रविम् ; परिणामायत ज्योतिष ज्योतिःशास्त्रं यस्य तम् । १५४) सकैरवेन्दीवर० शुक्लनीलः, अत एव ज्योत्स्नातमसोश्वोपमा । विशिख० रथ्या० । अर्चा प्रतिमा । विजया: भरतैरावतयोरपि विजयभाषाऽगमेषु दृश्यते । १५५) सौम्य: अनुग्रः । प्रतिपन्नदक्षिणवाममार्गगमः वामो हरः; यदनेकार्थः-'वामः कामे सव्ये पयोधरे । उमानाथे प्रतिकूले चारौं' [२।३४०] आश्रितोऽनुकूलः शिवमार्गागमो यस्तैः शैवैः; प्रतिपन्नो दक्षिणाप्तवाममार्गागमो यैः शकुनैः । शैवैः शिवदेवतैः । निर्वृतिः सुखम् । उत्पांसुल बद्धधूलिम् । क्लमं श्रमं वा [varient reading] ॥ १५६) काहल: अव्यक्तध्वनिः । स्थविराभिः शबरपत्नीभिरिति सम्बन्धः । विभज्यमान: भागीक्रियमाणः । गाढाञ्चितहिरण्यगमेकेशवेशेन गाढबद्धसुवर्णमध्यः कचवेषो येन सः, तेन ; (1) S #f; BC #9*: (2) B' Azzist. (3) BCS drop zio. (4) BCS drop श०. (5) Bl drops कथयद्भिः. (6) BCS drops स्तुवद्भिः . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy