________________
२९९
तिलकमञ्जरीटिप्पनकद्वयम्
शा.टि. १४०) अधिकसुश्लिष्टसंयोजितकलायाः एकत्र- विज्ञानकला, “अन्यत्राधारकाष्ठम् । नूतनगुणारापसविशेषलय्धसोव्यसम्पद. एकत्र नूतनगुणाः कान्तिसौम्यादयः, अन्यत्र नूतनतन्त्री । मन्मनः अव्यक्तध्वनिः । मेदुरः पीनः ॥
१४१) परिवर्धकः अश्वाकर्षकः । लेशिकाः पडिकाराः ॥
१४३) स्मयः दर्पः । मन्दरालोडितजलराशिजलमिव स्पष्टमूर्च्छनागमकरचितम्' एकत्र व्यक्तमूर्छभुजगमकरव्याप्तम् । अन्यत्र व्यक्तमूर्च्छनारागान्तरप्रवेशरचितम् । प्रभातकालग्रह'चक्रमिवदर्शितप्रकाशसर्वस्वरविशेपम् 1 "एकत्र प्रकटितदीप्तिसर्वस्वादित्यशेषम्, अन्यत्र प्रकटितव्यक्तिसकलषड़जादिस्वरभेदम् । मरुस्थलमिव कलमविकलनामतानम् एकत्र कलमशालिरहितग्रामविस्तरम्, अन्यत्र कलं मधुर, । 'परिपूर्णग्रामविस्ताररागत्रयैकविंशतितानम् ।। 13 दूरविततस्तम्भनिश्चलम् एकत्र स्तम्भः स्तम्भनम् , अन्यत्र आलानम् ॥
१४४) प्रतिपन्नवर्त्मभिः एकत्र वर्त्म मार्गः, अन्यत्र पक्ष्मोद्गमस्थानम् [=नेत्राच्छादकचर्मपुटम् ] ॥
ता०टि० १४०) संयोजितकलाया० कलं ध्वनिविशेषः; यदनेकार्थः- 'कलं त्वजीर्णरेतसोः । अव्यक्तमधुरध्वाने...।। [२।४८८] । विपञ्च्याः वीणायाः॥
१४१) बद्धपर्याण पलाणीअउ ॥
१४२) पर्वतपादपाषाणे पर्वतपर्वते । लेशिका आरिका । अन्धकारातिः हरः । गजासुर: दानवः। वशा हस्तिनी ॥
१४३) कोण: वादनदण्डः । उच्चचार उल्ललास, रणितमिति सम्बन्धः । स्मयः दर्प: स्पष्टमूर्च्छनागमकरचित मूर्च्छना एकोनविंशतिः; स्पष्टमूर्छा येषां ते हस्तिमकराः, तैश्चितां मूछनां गमयन्ति ज्ञापयन्तीति ये कराः तैश्चितम् ; गमा एव गमका विच्छेदाः; स्पष्टमूर्छनागमकै रचितम् । प्रकाशसर्वस्वरविशेषं सर्वे स्वरविशेषा यत्र ; रविरेव शेषो यस्य । कलम. विकल ग्रामतान सम्पूर्णा ग्रामास्त्र यस्ताना एकोनपश्चाशत् ; व्रीहिभेदैः शून्यग्रामसमूहम् । अकृतवारणः अनिषिद्धः । सृजन्त ददतम् । स्तम्भः स्तम्भन स्तम्भनेन, स्तम्भकाष्ठैश्च । सङ्कम: निःश्रेणी । प्राजनः आरिकादण्डः ॥
१४४) विभागावलोकनपरैरिव पक्ष्मणाऽवलोकनाभावाद् उत्प्रेक्षा ॥ . (1) BCs drops प्याः. (2) BS drop ०७. (3) B1 विज्ञान .. (4) BCS ०७०. (5) BCS drop ०२. (6) BCS लेखिका. (7) B1 drops °क०. (8) B1 भुजंग०. (9) BCS ० प्रकास ०. (10) BCS drop एकत्र. (11) B' drops ०ग्रामविस्तार. (12.) BC राग्र०. (13) BCS वितरस्तभ०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org