________________
तिलकमञ्जरीटिप्पनकद्वयम्
शा०टि. तरलितायतापाङ्गतरङ्गयोः अन्तस्तरच्चारुतारकयोः क्षीरधवलयोरिक्षण महानदीप्रवाहयो: ईक्षणे नेत्र एव महानदीप्रवाही तयोः; कीदृशोः ? तरलितायतापाङ्गतरङ्गयोः चञ्चलीकृतौ दीर्घनेत्रत्रिभागावेव तरङ्गो ययोस्तौ तथोक्तौ तयोः, अन्यत्र मध्यतरन्मनोज्ञोज्जवलजलयोः; क्षीरधवलयोः [इति] समानविशेषणम् । अविरलावदातदन्तकुड्मलं दन्ता एव, दन्तवच्च, कुड्मलानि अविकमितकुसुमानि यत्र तत् तथोक्तम् । अमलगण्डफलकम् एकत्र निर्मलप्रशस्तकपालम् , अन्यत्र निर्मलकपोलवत् फलानि यत्र तत् तथोक्तम् । अनिलविलुलितनीलाल कालिकमनीयं वातचलितकृष्णकुटिलकेशा एव अलयः भ्रमराः, तैः, 4 एकत्र; अन्यत्र अलकवद् ये भ्रमराः, तैः कान्तम् । अनिभृतभूल नाविलासं चञ्चल भ्रबियोकं, चचलभ्रलतावद् वीनां पक्षिणां लासः लसनं क्रीडा: यत्र तत् तथोक्तम् । उन्नतनासावशम् उच्चप्रशस्त'. नासिकम्, उन्नतवंशं च । अभिनयप्रवालपाटलाधर नूतनपत्रवद् रक्तोऽधरो यत्र तत् तथोक्तम् , अन्यत्र प्रवालानि एव रक्ताधरो यत्र तत्' तथोक्तम् । 1° उत्कलितकालागुरु तिलकशोभम्। एकत्र 12अधिककृष्णागुरुविशेष कविभूषम्, अन्यत्र उत्कलितकालागुरुतिलकवृक्षशोभम् । आबद्धनिबिडपुष्पापीडम् एकत्र रचितगाढकुसुमशेखरम् , अन्यत्र उद्गतघनकुसम सङ्घातम् । आक्रीडमिव क्रीडापर्वतमिव । प्रतोष्यमाणं गृह्यमाणम् ॥
ता०टि० कक्षा काञ्ची । यदने-[कार्थः-] '....कक्षा विभरज्जौ काञ्चीगेहप्रकोष्ठके। भित्तौ साम्ये रथ भागेऽन्तरीयपश्चिमाञ्चले ॥ उद्ग्राहिण्यां च...' [२।५६३-५६४] । ततो निबिडः कक्षाबन्धः पाञ्चीबन्धः भित्तिबन्धो वा; अथ देशविशेपात् , परिधानविन्यासविशेषाद् वा, कक्षाबन्धः कच्छ बन्धों वा यस्य, तेन जघनबिम्बेन । अवेक्ष्यमाणः प्रतिजाग्रियमाणः । तनुतरङ्गः हस्वभ्रमिः । अनन्यजनिः कामः । सुदर्शनोपेत: [सुदर्शन चक्र, शोभन दर्शन च । वैकुण्ठः विष्णुः । तारकायाः तरन्तीति तारकाः पुरुषाः । ईक्षण नेत्रम् । तुषार: शीकरः; यदने[कार्थः-] 'तुषारो हिमदेशयोः शीकरे हिमभेदे च' [३।५९६ । उत्कलितकालागुरुतिलकशोभ वर्धिता कालागुरु[-तिलकस्य शोभा यत्र मुखे । उत्सङ्गिताम् उत्सङ्गे कृताम् । निशान्त' निशाया अन्त प्रभातम्, प्राभात च ।
१२१) पश्यति सति [इति शेषः । आकर्णयति सति [इति शेषः ।
१२२) रुपिणीं मूर्तिमतीम् । (1) B1 drops रिक्षण ...हयोः. (2) BCS कुमलानि. (3) S तत्रत्तथोक्तम्. (4) BCS तैतत्र, dro. pying ०२० after तै०. (5) Bl drops क्रीडा. (6) S नाशा० BCS drop ०च्च०. (7) B' प्रधाला. (8) S तत्र तत्तथोक्तम्. (9) Bi drops उत्अ...शोभम् (10) B1 drops एकत्र. (11) Bi उत्कलितकाला ०. (12) Bl dropsशेखरम्...धन. (13) B1 drops आ०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org