________________
तलकमञ्जरीटिपनकद्वयम्
२९३
शाटि ११०) बालतपस्विना अज्ञानतपोधनेन ॥
१११) [प्रवृत्तमेषस्य] मेषः' मेण्ढको- मेषराशिश्च । चलित सरोहिणीक वृषस्य एकत्र रोहिणी नक्षत्रम्, वृषः राशिः; अन्यत्र रोहिणी सुरभिः, वृषः गौः । विभाव्यमानतुला. धनुष: एकत्र तुलाधनुषी राशी, अन्यत्र तुला प्रसिद्वैव, धनुश्च कामुकम् ।।
११२) रेचितं रिक्तम् । अभ्रमु: ऐरावणजायो । वामनः पश्चिमाशा करी ।
११५) छन्दोविचितिशास्त्रमिव बृहत्याजगत्या' च” छन्दो जात्या, अन्यत्र महत्या देवकुलिकापरंपरया । युगान्तदिवसमिव विलसदेनेकरूपकालीकान्तम्” एकत्र विलासवन्नानारुपशङ्करम् , अन्यत्र देदीप्यमाननानारूपकपङ्क्तिकमनीयम् । हेमन्तमिव समासन्नशिशिरवातायनालङ्कृतम् एकत्र निकटशीतलवाय्वागमनभूषितम् , अन्यत्र निकटशीतलगवाक्षभूषितम् ।
प्रौढवादिनमिवातिविषमपत्रभङ्गविस्मायित' 3 प्रेक्षक जनम् एकत्र दुर्विजेयपत्रकभजनाश्च 14 यितलोककम्। 5, अन्यत्र दुर्लेखनीयपत्रवल्लीरचनाभेदाश्चर्यितप्रेक्षकजनम् ।।
ताटि० ११०) विनिपातः दैवतो व्यसनम् । अनधीनतायाः स्वातन्त्र्यस्य; परमत्र त्वे... । हेपण लज्जाकरम् ।
१११) किरणरज्जुस्तम्यः लाजाकारत्वात् स्तम्बः । पिण्डीकृत वयोमुक्त इत्यर्थः । रोहिणी गौः । तुलाधनुषः याज्यलष्टितानि (?) धनपि यत्र । सार्थस्य 'सार्थो वृन्दे वणिगणे' [अनेकार्थः २।२२५] ।।
११२) आवर्जितः नम्रीकृतः । उन्नमयति या उपलक्षिते सति [इति शेषः । कौपीन: कच्छोटकः। जालिकः माछी । उपनीत दत्तम् ।
११३) उज्जिहानम् उद्गच्छन् । विलुलितं प्रभाराशिभिदि सम्बन्धे इति ज्ञेयम् । नि सितम् अवलोकितम् । हस्तच्छत्रकैः [हस्तः एव [छत्रं यस्य सः, तैः ।
११४) आगच्छत् विद्याधरवृन्द्रमिति सम्बन्धः । सन्तर्पितेन बहुलितेन । उज्ज्वालo ऊर्ध्वज्वाल । अदृश्यमान० गगनगामित्वात् भूमेरन्तरस्य महत्त्वाच्छायायाऽप्रतिबिम्बनम् निल्न. एकस्मिन् दण्डे एकस्य छत्रस्य सद्भावात् निलूनपत्रपद्मप्रतिमत्वम् ।।
११५) अष्टापदाद्रिः स्वर्गाद्रिः । उत्फालः मन्थानः । ग्रावः मणिः । कलापः शिखण्डः । नीलकण्ठः मयूरः । समुचितम् उचितम् अभ्यस्तम् , यदने-कार्थः-] 'उचित विदितेऽभ्यस्ते
(1) B1 drops मेषः. (2) B1 अजः. (3) S drops ०१०. (4) BCS drops .क०. (5) BCS drops ०शा०. (6) BCS droys जगत्या. (7) B' drops च. (8) B1 drops पर.. (9) B1 कालि... (10) B1 रूपैक०. (11) Br drops निक...मन्यत्र. (12) BCS drops न०. (13) BCS विस्मापित०. (14) BCS drops ०मा०. (15) BT लोककलोकम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org