________________
तिलकमञ्जरीटिप्पकद्वयम्
शा०टि० १०३) त्रिजटा रावणभगिनी । 'कण्टकिता रोमाञ्चिताः । अङ्गदः वालिपुत्रः । सकलदिग्मुखान्तरालव्यापिघोषस्य पौलस्त्ययशसो रथस्येव भग्नोऽक्षः एकत्र घोषः घोषणं प्रसरणम् , अन्यत्र चीत्कारः; अक्षः रावणसुतो, धूश्च । मारुतिः हनूमान् । महानिद्रा मरणम् । नीलः समप्रधानः । प्रहस्त: रावणप्रधानः । आसार: वेगववृष्टिः । नेमिः चक्रधारा । अग्रजशक्ते: कुम्भकर्णसामर्थ्यस्य । सरणिः मार्गः । कुबेरपुरम् अलकाम् ।।
१०४) जन्यं सङ्ग्रामः । विक्षेप: धाटकः । अवस्कन्दं धाटकम् । नौकया लघुनावा । स्थपुटयन् 'विषमोन्नतं कुर्वन् । उपनीतश्च ढौकितश्च, वानरैरिति शेषः । एधः काष्ठम् । अरित्रं यानपात्रत्रहित्रम् । नेदीयान् प्रत्यासन्नतरः ॥
१०५) 'तारतुमलेन उच्चाव्यतशब्देन । स्थवीयसी स्थूलतरा । ग्राह: जलचरः । प्रसेवकः कोत्थलकः । निरनुक्रोश: निर्दयः । क्रोशरुन्दं गव्यूतिविस्तीर्णम् । प्लवकः मण्डूकः । दन्तुरः करालः ॥
ता०टि० १०३) बकुलेषु तटवनेविति सम्बन्धः । कटकितः कटक सञ्जातमस्य असौ । दृष्टलङ्कानि दृष्टलङ्कया निश्चितो दश इति । प्रसह्य हठात् । मारुतिना हनुमता । अक्षः कुमारः, धूश्च । सहोदरः कुम्भकर्णः । क्रमः चरणः । उदश्चता ऊर्ध्व गच्छता । ज्वलनजन्मः प्लवङ्गराजः । प्रहस्तः नक्तं वरः । शारिताः कुर्बुरीकृताः । आपतत् सन्मुख धावत् । निर्वाद: वाच्यता । उन्मोहितः छोटितः ।।
१०४) जन्य० रण० । अविक्षेपेण शीघ्रम् । ऊरी कृता अङ्गीकृता । त्रिभागशेषा त्रिभागः शेषो यस्याः सा । निरायतः सरलो, दी| वा; माघवृत्तो दृश्यते । सानु: अयम् [ इत्यर्थः] । उद्राग: उद्गतरागः । जाइय शीतम् । जाइय' जत्यं वा (Variant reaing)। अरित्रम् आउला । अर्ण नीरम् । संक्षोभितसकलजलचर: भेरीध्वनिविशेषणानि ॥
१०५) मखविसी अग्रे वर्धितः । सर्पितस्तारतुमुलेन उल्ललास कलकल इति सम्बन्धः। तरी नौ । आविष्टस्य कुपितस्य । मर्म कर्म । नोगिलिष्यत्यथा उदरमर्मपीडन विना । प्रसेवकः कुत्थलकः। रुन्दम् पृथुलम् । महाप्लवकेन महाद१रेण; यदनेकार्थः-'प्लवः भेल कभेकयोः ।' [२।५४१-५४२] भेलकः त्रापकः । तालः तालिका । कीकट: कृपणो नीचाश्वः; यदने-[कार्थः-] 'कीकटः कृपणे क्लिष्टे देशभेदे तुरङ्गमे ।' [३।१५५] ॥ ___ (1) BCS किंकिता, dropping (2) BCs drops प्र० (3) B1 निम्नोन्नत (4) B1 ताल..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org