SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरीटिप्पनकद्वयम् शा०टि. ९३) मद्गु: जलवायसः । लवणजलराशिसलिलक्षारदग्ध'तनुभिरपि निविण्यैः ये लवणसमुद्रजलक्षादिग्धदेहास्ते कथं निर्गतलवणभावाः ? अन्यत्र अपगताङ्गचारुत्वाः । नलस्तम्बैरिव जलाशयोपान्तेषु वृद्धि गतैः एकत्र तडागादिपर्यन्तेषु, अन्यत्र जडचितसमीपेषु । कैवतैः धीवरैः ॥ ९५) अशेषपुरुषार्थसंप्राप्तिपात्र यौवन यानपात्रं च एकत्र सर्वधर्मार्थकामप्राप्तिभाजनम्, अन्यत्र सर्वपुरुषद्रव्यसम्पत्स्थानम् ।। ९७) मकरमुखतः जलचरवि शेषवक्त्रात्, अन्यत्र मकरमुखप्रणालात् । हरति मदम् एकत्र मदं मत्तताम्, अन्यत्र दर्पम् । डुण्डुभो जलसर्पः । कृष्टजाङ्गुलिक इव न मुह्यति विषमोदकविपत्सु एकत्र रौद्रजलापत्सु, अन्यत्र विषमिश्रलड्डुकापत्सु; जाङ्गुलिको विषवैद्यो गारुडिको वा ॥ ९९) स्वाभिजनः स्वकुलम् । ता०टि० ९३) वेत्री प्रतीहारः। अनवसान० अविश्रान्त० । प्रस्थानकालेत्यादि यथा यथा स सञ्चरति तथा तथा लावण्यं तस्य प्रसरतीत्यर्थः । नागर नगरम् । अकूपारः समुदः । बडिश० मत्स्यहन्ता च मांसम् । असुकृत पापम् ॥ ९६) अवलम्बितः गृहीतः । अपसारितसाध्वसा गतभया । गृहीतपाणिः पाणिग्रहणस्य संवृतत्वात् ।। ९७) वहन प्रवहणम् । निर्वर्ण्य अवलोक्य । चापलं प्रति परिणयनादौ । डुण्डुभः सर्पविशेषः । विषमोदकविपत् विपमिश्रा मोदकास्तैर्विपदः ।। ९८) यानपात्राणि प्रवहणानि । पोताः लघुप्रवहणानि । प्रायः तुल्यः । प्रायशः प्रायशस, सकारान्तोऽव्ययः । तत्० नाविक० । ९९) आवर्जनेन किञ्चिद्वक्रीकरणेन । शिरसा चेतमा वा; (Variant reading) । प्राणंसिषम् प्रणतवान् ॥ (1) B1 दिग्ध. (2) BCS drop ०५०. (3) B'S drop यान०. (4) B1 • संस्थापनाम. (5) BCS drop °च०. (6) B1 मिश्रणजलाडुका०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy