SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २६२ शान्त्याचय-शानकलश-विरचितम् शा०टि० [स मदान्धकेत्यादि-] स रुद्रः रुद्राभिधानः कविः, कैर्नाभिनन्द्यते ? सर्वैरपि प्रशस्यते । कीदृशः १ मदान्धकविध्वंसी मदान्धा दर्पान्धा ये कवयस्तात् [विशेषेण ] ध्वंसते तिरस्करोति पराभवतीति स तथोक्तः, यस्य कथा वर्तते । किमाख्या १ त्रैलोक्यसुन्दरी । किम्भूता ? सुश्लिललिता सुष्टुश्लेषधना लालित्ययुक्ता' च । अन्यत्र, रुद्रः हरः । कैर्नाभिनन्द्यते ? सर्वैरपि प्रशस्यते । कीदृशः १ समदान्धकविध्वंसी समदः सदो यः अन्धकोऽन्धकासुरः,' तस्य विध्वंसी विधाती, यस्य सुश्लिष्टललिता आलिङ्गनवती गौरी । किम्भूता ? त्रैलोक्य. सुन्दरी त्रैलोक्ये त्रिभुवनमध्ये "सुन्दरी सौन्दर्ययुक्ता ॥३५॥ [सन्वित्यादि पद्यं नेह व्याख्यातम् ॥३६॥ ] केचिदित्यादि पद्य नेह व्याख्यातम् ॥३७॥ श्रीभोजदेवराजवंश' वर्णनपूर्वक भोजदेववर्णनार्थमबुंदगिरिवर्णनमाह-अस्तीत्यादि । खेचराः विद्याधरादयः । ग्रामः समूहः । सत्या गौर्या 12च ॥३८॥ 13वासिष्ठेरित्यादि । कृतस्मयो विहितगर्वः । विश्वामित्रजयोजितस्य विश्वामित्रर्षिपराभवविस्फुरितस्य ॥३९॥ [तस्मिन्नित्यादि पचं नेह व्याख्यातम् ॥४०॥ तत्रेत्यादि पद्यं नेह व्याख्यातम् ॥४१॥ तस्येत्यादि नेह व्याख्यातम् ॥४२॥ आकीणेत्यादि पद्यं नेह व्याख्यातम् ॥४३॥ देव्येत्यादि पद्यं नेह ब्याख्यातम् ॥४४॥ आयातेत्यादि पद्य नेह व्याख्यातम् ॥४५॥ श्रत्वेत्यादि पद्यं नेह व्याख्यातम् ॥४६॥ प्रासादेवित्यादि नेह व्याख्यातम् ॥४॥ [ 'यस्य दोष्णि, स्फुरद्धेतौ इत्यादि श्लोकचतुश्यं तिलकमञ्जरीहस्तप्रतिपाठेषु राज्ञो मेधवाहनस्य वर्णनावसरे दृश्यते । टिप्पनककारेण तु 'प्रासादेषु....' इत्यादि (४७) श्लोकानन्तर भोजवर्णनपरत्वेनेहैव व्याख्यातम् । अस्माभिश्च तिलकमञ्जरीग्रन्थपाठानुरोधेन व्याख्यानमस्य स्थानपरिवर्तनेन तत्रैव स्थापितम् ॥] येषामित्यादि । सैन्यभराहितोरगपति शान्ति सेनासम्भारकृतनागराजखेदं यथा भवति तथा, प्रयातां गच्छताम् । क्व ? बहिः बहिर्देशे'+ । मात्रा: परिग्रहः परिवारो वा ॥४८॥ (1) S शुश्लिष्ट (2) B1 मुष्ट (3) Bf धना (4) S drops-त्र (5) Bt drops सदर्पः, and adds मदसहितः (6) BL dros यः (7) S अन्धसुरः (8) C थालिङ्गन (9) BCS drop त्रैलोक्ये...सुन्दरी. (10) S वंस (I1) B1-पूर्वक (12) BL drops च (13) S वाशिष्ठैः (14) Bt बहिः प्रदेशम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy