________________
शान्त्याचाय-ज्ञानेकलश-विरचितम्
शा०टिक कादम्बरीसहोदा कादम्बरीकथाभगिन्या, एकजनकत्वात् । क इब कया ख्याति लब्धंवान् ? अब्धिारवें सैमुद्र इव, सुधयों अमृतेन । कथम्भूतया ?: हर्षाख्यायिकया हृष्टिकर्थिकया' व ? हदि चित्त । किम्भूते १ वैधुंधै देवसंस्के । तयापि किम्भूतया ? कादम्बरीसहोदर्य सुराभगिन्या, द्वयोः समुद्रादुत्पन्नत्वात् ॥२७॥
[माघेने त्यादि-] नोसहन्ते नोद्यम कुर्वन्ति । क्व १ पदक्रमे सुबन्त-तिङन्त-पदन्यासे, काव्यकरण इत्यर्थः । कवयः' कवितारः । कीदृशाः सन्तः ? विघ्नितोत्साहा भग्नोद्यमाः । केन ? माधेन काव्येन', कविनाऽतिगम्भीरार्थ' पदरचितमहाकाव्यत्वात् । तर्हि किं कुर्वन्ति ? स्मरन्ति ध्यायन्ति । कस्य ? भारवेरेव, 1'कवेः कर्मणि षष्ठीयं, भारवि कविं स्मरन्ति, भारविरेव माघतुल्य इत्यर्थः । क इव नोत्सहन्ते स्मरन्ति12 च १ कपयो यथा 13 यथा वानरा नोत्सहन्ते । क्व ? पदक्रमे पदन्यासे । किम्भूताः सन्तः १ विनितोत्साहा भग्नोद्यमाः । केन ? माघेन4 माघमासेन, अतिशीतेन । (एव) केवलं स्मरन्ति ध्यायन्ति । काः ? भाः रश्मीन् । कस्य ? 17रवेः आदित्यस्य, कदा रवेः रश्मयः18 प्रकटीभविष्यन्तीति ॥२८॥
निरोद्धमित्यादि-] निराद्ध निषेद्ध'' केन पार्यते शक्यते ? न केनापीत्यर्थः । किं तत् १ मनः चितम् । किं कुर्वत्° ? त्यजत् मुञ्चत् । किं तत् १ समरादि सभाममृगयागतपरस्त्रीगमनप्रभृति दुष्टवस्तु । कथम्भूत सत् ? वशीभृतम्-2 आयतम् । कस्य ? प्रशमस्य उपशमस्य, .क्षान्तरित्यर्थः । किम्भूतस्य प्रशमस्य ? समरादित्यजन्मनः समरादित्याद् हरिभद्रसूरिकृतधर्म कथायाः सकाशात् , जन्म उत्पत्तिर्यस्य, सं तथोक्तस्तस्य ॥२९॥
स्पष्टेत्यादि-] प्रतिता प्रकर्षेण नर्तन का रिता, विस्फारितेत्यर्थः । का ? भारती वाणी । कैन ? भवभूतिना कविना । केषु ? नाटकेषु [महा-वीरचरितोत्तररामचरितादिषु । कथम्भूता ? स्पष्टभावरसा व्यक्तंशोकादिभावशङ्गारादिरसा । कैः प्रनर्तिताः ० १ पदन्यासः सुबन्ततिङन्तपदरचनाभिः । किम्भूतैः चित्रैः नानारूपैः, समासादिभेदेन । केव ? नटस्त्रीव भरतभायेव, यथा नटी नटेन प्रनयते । कैः १ पदन्यासैः पादनिक्षेपः । कीदृशैः ? चित्रैः जनाश्चर्यकारिभिः, अनेकप्रकारैर्वा । कीदृशी ? स्पष्टभावरसा27 स्पष्टभावा व्यक्तस्वरूपा रसाः शृङ्गारादयो यस्याः, सा तथोक्ता । यद्वा; स्पष्टौ व्यक्तौ भावरसौ. अभिप्रायाग्रहौ नर्तने यस्याः, सा तथोक्ता । यद्वा, पूर्ववद् व्याख्या ॥३०॥
(1) B+ arops रव्या...वान् (2) B1 किंभूतया (3) BC कविकथा (4) Bl drops चित्ते (5) BC किंभूतया (6) B1 समुद्रे (7) BCS केवलयः (8) C सतः (9) BCS drop काव्येन. (10) S रचि.. (11) Bt drops कवेः...भारविरेव (12) S स्मर च (13) Bl drops वथा (14) 'BC drop केन. S drors कैन and मा० (15) BCS drop ध्यायन्ति (16) S रस्मीन् 117) BCs वेरेव (18) S रस्मयः, (19) S निषिद्ध 120) B1 कर्वन् (21) Bdrops सत (22) S वैसीभूत (25) B1-चरमकथायाः (24) C reapets कविना after it (25) BCS dropराम (26) BCS drop प्रनर्तिता (27) : CS drop स्पष्टभावरसा (28) B' drops यद्वा ...व्यक्तौ (29) Bi adds च after it.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org