________________
तिलकमअरोटिप्पनकद्वयम्
शा०टि०
[वार्य इत्यादि] सोऽनायों दुर्जनो, वार्यौ निवारणीयो, य आयाति प्राप्नोति । काम् १ सर्पताम् अहितम् । किम् ? कुर्वन् विदधानः । कम् १ विघ्नम् अन्तरायं दोषोद्घट्टनलक्षणम् । कया ? अग्रगामितया पुरोगन्तृत्वेन । केषाम् ? सर्पतां प्रवर्त्तमानानाम् । क्व १ काव्याध्वनि काव्यमार्गे । किम्भूते ? निर्दोषे छन्दोऽलङ्कारादिदोषरहिते । सर्वोऽपि यदा मार्गे चोरादिदोषशून्ये गच्छतामप्रगामित्वेन विघ्नं करोति तदा वार्यः । अनार्यः क्षुद्रः ॥९॥
૨૨
[शेषे इत्यादि - ] शे] तालव्यशकारे । षे मूर्धन्यषकारे । से दन्त्यसकारे । वा समुच्चये वासे च । विशेष भेदम् । ये नराः, न जानन्ति न बुध्यन्ते, (ते) किं न लज्जन्ते लज्जितव्यमेव तैर्भवति ( इत्यर्थः) । केषाम् ? मनीषिणां विदुषाम् । किं कुर्वन्तः १ यान्तो गच्छन्तः । काम् १ द्विजिह्न+तां दुर्जनताम् अग्रे पृष्ठतो गुणदोषप्राहित्वात् । कीदृशाः १ हीतकुलाः नीचगोत्रा इत्थेकोऽर्थः । अपरश्च - शेषे नागराजे सेवाविशेष विशिष्टाराधनं, ये न जानन्ति, अहीनकुला' अहीनाम् इनः स्वामी, नागराजः तस्य कुलं गोत्रं येषां ते तथोक्ताः नागराजकुलजाताः (इत्यर्थः) । ते किं न लज्जन्ते ? लज्जन्त एव मनीषिणाम् । किं कुर्वन्तः ० १ यान्तः काम् १ द्विजिह्वतां सर्पताम् । अवश्यमेव ये नागराजकुले जातास्ते नागराज सेवां जानन्ति । यद्वा ही विस्मये । ते नकुलाः किं न लज्जन्ते ? विमदान् करोति । कथम्भूतः १ क्लृप्तसन्धान पुलिन्द्र कृतसन्निधिः क्लृप्तसन्धानः कृतकादम्बरी समाप्तिः, यः पुलिन्द्रः पुलिन्द्राख्यः सुतः, तेन कृतः सन्निधिः सन्निधानं यस्य तथोक्तः, स्वपुत्रकवियुक्त इत्यर्थः । अन्यत्र, केवलोऽपि नरादिरहितोऽपि, बाणः शरः, करोति, कवीन् कं जलं, तत्र वयः पक्षिणो हंसादयः, तान् पक्षिणः । किम्भूतान् 11 १ विमदान् हर्षरहितान् विषादवत इत्यर्थः । किं कुर्वन १ स्फुरन् देदीप्यमानः । किं पुनः (किं पुनर् ) न करोति ? कथम्भूतः १ क्लृप्तसन्धानपुलिन्दकृत सन्निधिः क्लृप्त' कृतं सन्धानं धनुष्यारोपणं येन स तथोक्तः, स चासौ पुलिन्द्रश्च शबरच, तेन कृतः सन्निधिः सन्निधानं यस्य स तथोक्तः, आरोपितचापनाहलविहितसामीप्यः ||२६|
पुनरपि बाणकविं वर्णयितुमाह ( कादम्बरीत्यादि । ) लब्धवान् प्राप्तवान् । कः १ बाणः । काम् ? ख्यातिं प्रसिद्धिम् । कया हर्षाख्यायिकया उच्छ्वासनिबद्धा कथैवाख्यायिका हर्षस्य राज्ञ' आख्यायिका, तया, सुधया अमृतेनेवाSSहलादकत्वात् । क्व १ हृदि मनसि । किम्भूते ? वैबुधे विशिष्टा बुधाः पण्डिता विबुधाः, तेषामिदं वैबुधं तत्र । किम्भूतया १
3
(1) B1 दोषोत्पादन ( 2 ) B1 कुद्ध: ( 3 ) B1 drops वासे च ( 4 ) S द्विह्नतां (5) Bi drops अहीनकुलाः (6) BCS कुर्बतो ( 7 ) BC drop नाग... स्ते. ( 8 ) B 1 किभूतः ( 9 ) Breads कृत and drops सन्निधिः ( 10 ) S तक्तः ( 11 ) BCS किंतान् ( 12 ) BCS drop सन्निकृत (13) BSC हषरिख्यायिका.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org