________________
२५८
शान्त्याचार्य-ज्ञानकलश-विरचितम्
शा०टि० ... [ध्यानेनेत्यादि- मोहमशानं] संशयविपर्ययरूपम् । विभिन्न विषयम् अनेकार्थसम्बन्धिनम् । क्व ? हृदि सनसि, मनोगतमित्यर्थः । केषाम् १ प्राणिनां देवनरतिरश्चाम् । भिन्दाना विदारयन्ती । कथम् ? युगपद् एककालम् का ? वाणी भारती । क्व ? आये धर्मकथाविधौ प्रथमे धर्मकथने समवसरणव्यवस्थितस्योत्पन्नकेवलज्ञानस्य ॥४॥
[अध्यादित्यादि-]. पञ्चमश्लोकव्याख्या क्रियते--अव्याद् रक्षतु । का? मूति: तनुः । कस्याः १ गिरामधिमतेव्याः सरस्वत्याः । कीदृशी ? शरदिदन्दुगौरी शरच्चन्द्रघवला । उत्प्रेक्षते कविः-धौतेव प्रक्षालितेव । केन ? दन्तकिरणप्रकरण दशनांशु सङ्घातेन । किं कुर्वन्त्या ? आवसन्त्याः तिष्ठन्त्याः । किं तत् १ वक्त्रकमलोदर मुखपद्ममध्यम् । कर्मत्वं तु 'उपान्वध्याङ्वसः' (पाणिनीयसूत्र १४।४८) इति । मुखकमलमध्य' इत्यर्थः । कस्य देवस्य ? किमभिधानस्य १ पुरुषोत्तमनाभिसूतेः पुरुषोत्तमश्चासौ नाभिसूतिश्च नाभेयश्च स तथोतस्तस्य, ऋषभस्येत्यर्थः । लाकभाषया पुरुषोत्तमो विष्णुस्तस्य नाभिर्नाभिपद्म, तात्स्थ्यात् तस्मिन् सूतिरुत्पत्तिर्यस्य स तथोक्तस्तस्य, ब्रह्मण इत्यर्थः । कानि रक्षतु' ? जगन्ति जगत्रयस्थितप्राणिनः ॥५॥
अधुनाऽऽसन्नतीर्थोपकारकत्वाद् भगवतो वर्धमानस्येष्टाभिमतदेवस्यैव पुनर्नमस्कारमाहरक्षन्त्वित्यादि । अर्जिताहसि गृहीतपापे ॥६॥ :: वाच उत्कृष्टत्व माह [प्रबन्धे त्यादि ।] सा वाग वाणी, जयति उत्कृष्टा वर्तते । यया वाचा । कविः । कीदृशः' १ क्षीणोऽपि हीनोऽपि जीवति उच्छ्वसिति प्राप्तप्रसिद्धिोंके भवति । यद्वा जीवति जीव इव बृहस्पतिरिवाचरति, आयिलोपे रूपम् । बृहस्पतीयते 11इत्यर्थः । कयेव कः १ प्रतिपदेव शुक्लपक्षप्रथमतिथ्येव, इन्दुः । यथा चन्द्रः प्रतिपदा क्षीणोऽपि क्षयप्राप्तोऽपि जीवति प्रादुर्भवति12 । किम्भूतया वाचा प्रतिपदा च ? शुद्धया निर्दोषया शुभ्रया च । कीदृशी वाक् प्रतिपच्च १ अनध्यायः अनध्ययनमनध्ययनहेतुत्वाद् अपठनं तथा. विधार्थालङ्काराद्यभावेनोद्वेगहेतुत्वात् । केषाम् १ प्रबन्धानां शास्त्राणाम् । प्रतिपदप्य 3नध्यायः शास्त्राणाम् , अध्ययनस्य निषेधाच्छास्त्रे ॥७॥
अथ कविवर्णनं दुर्जननिन्दा चाह-वन्द्या इत्यादि । सुगमम् ॥८॥
(1) B देकालंका. S -देकालं (2) B1 drops ०व्यव. (3) B, drops ज्ञान०. (4) B1 दशनानांसु०. (5) B drops कर्मत्व...मध्य (6) B C स्था. (7) BCS रक्षन्तु (8) Br drops • त्व. (9) BC drops कीदृशः (10) B1 जीर्णो (५) BC drop यद्वा (11) B1 -तीत्य. (12) Bi drops प्रादुर्भवति (13) BC दपि अन (14) B इति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org