________________
शान्त्यचार्य-ज्ञानकलश विरचित् .......... शा०टि० रूपतया पश्यति, विशेषरूपतया च जानाति, दर्शनज्ञानार्थत्वाद् ईक्षतेः। किं तत् १ जगत्रयं भुवनत्रयम् अधोमध्योर्खलक्षणं चतुर्दशरज्ज्वात्मकं लोकमित्यर्थः । एतच्चोपलक्षणम् । तथा (च) अलोकमपि धर्मादिपदार्थशून्यमनन्तं पश्यति जानाति च । कीदृश जगत्रयम् १ च्याप्तं युक्तम् । कैः ? रूपैः शरीरैः । कियद्भिः १ अनन्तः अनादिभिः', न पुनरपर्यवसानः, मुक्तान। शरीरपर्यवसानादनन्त(त्व)सम्भवात् । कस्य रूपैः ? एकैकजन्तोः एकस्यैकस्य जीवस्य । अनादित्वं च रूपाणामनादौ संसारेऽनन्तशो जन्ममरणप्राप्तः। पुनः कीदृशम् ? कृत्स्नं परिपूर्ण समग्र, नैकदेशम् । कथमीक्षते १ प्रतिक्षणं निरन्तरं, न पुनरन्तरमस्तीति ॥१॥
__[प्राज्येत्यादि-] ददतां ददातु । 'दद दाने' अस्य पश्चम्यात्मनेपदकवचने तामि रूपम् । कः १ जिनः वचनविपरिणामेन' सम्बन्धः । कीदृशः १ निर्वृतात्मा मुक्तस्वरूपो, रागादिरहित इत्यर्थः । पुनः किं नामा ? आद्य ऋषभनाथः । कां ददताम् १ मुद धर्मादिप्रकाशकत्वेन हर्षम् । केषाम् ? नः अस्माकम् । न केवलमाद्यो जिनेऽन्येऽपि जिना ददतां प्रयच्छन्तु । 'डुदान दाने' अस्य पञ्चमीपरस्मैपदबहुवचनेऽन्तामि रूपम् । तेऽपि कीदृशाः ?
___ ता०टि०
ताडीपत्रेषु टिप्पण्यः काश्चनाधोऽपरा पुनः । ऊर्ध्व प्रथमपङ्क्तश्वापरा मध्ये निवेशिताः ।।६।। केनेमा रचिता कुत्र कदा जातो नु कः स्वयम् । सर्वमित्यादि नालेखि तेन सोऽज्ञात एव नः ॥७॥ किन्तु सम्भाव्यतेऽप्येतद् यज्ज्ञानकलशः सुधीः । मेरुनन्दनशिक्षावसरे दिष्ट्वा व्यलेखयत ।।८।। मूलग्रन्थानुसन्धान स्फुटं स्यात्सर्वदा यथा मूलग्रन्थगतो भागः प्रतिशब्दं प्रदर्शितः ॥९।। स्थूलाक्षरविनिर्दिष्टः सम्पादकसमुद्धृतः । ताडीपत्रे तु मूलस्थत्वात्पृथङ् न प्रदर्शितः ॥१०॥ तदेवं हि विविच्यैव नवीनार्थान् विभाव्य च ।
ग्रन्थार्थज्ञानसाहाय्यमध्येतु निश्चित भवेत् ॥११॥ ] ताडीपत्रीयटिप्पणी-[ग्लो० २] ददतां ददतु प्रयच्छतु । निर्वृतः सुखी । [श्लो० ३] लक्ष्मीः शोभावाचकः । [श्लो० ५] उदरं मध्यम् । [श्लो० ७) जीवति बृहस्पतीयते । [श्लो०९ सर्पता गच्छताम् । सर्पताम् अहिताम् । [ श्लो० १० ] हीनः धिक्। [श्लो० ११] मधुना माधुर्येण चैत्रेण [च ] । [ग्लो० १२] अवाञ्चि अवचनानि अधोमुखानि [ च ] [श्लो० २३] तरजावतीकथा पालिताचार्यः कर्ता । [श्लो० २४] पल्लविता अतिशयो, निगीर्याध्यवसानः । (1) B, अनादित्वेन, न पुनः पर्यवसानैः मुक्तानां शरीरपर्यवसानांनां नन्तरत्वादसम्भवात् । (2) BCS वाचनपरिणामेन (3) BBCS .त्तात्मा.
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International