________________
पूर्णतल्लगच्छीयाचार्यश्रीशान्तिसरिविचितं
॥ टिप्पनकम ॥ सम्यग् नत्वा महावीर रागादिक्षयकारकम् । उत्पन्नानन्तविज्ञानं देवपूज्यं गिरीश्वरम् ॥१॥ तिलकमञ्जरीनाम्न्याः कथायाः पदपद्धतिम् ।
श्लेषभङ्गादिवैषम्यं विवृणोमि यथामति ॥ शा० टिप्पनकम्-इह जगति सर्वेऽपि शिष्टा अभीष्टे वस्तुनि प्रवत्तमाना अभीष्ट. देवतानमस्कारपूर्वक प्रवर्तन्त इति मत्वा, परमश्रावको धनपालकविः ‘स वः पातु' इत्यादिश्लोकपञ्चकेनेष्टामिमताधिकृतदेवतानां नमस्कारान् करोति । तत्राद्येन श्लोकद्वयेन जिनस्य चतुविंशतितीर्थकृतां चेष्टदेवतानमस्कारः, अपरेण चाभिमतदेवताया नाभेयजिनस्य, एकेन चाधिकृतदेवताया सरस्वत्या इति । तत्र रागादिजेतृत्वादिसामान्यगुणेनेष्टदेवता, गोत्रपारम्पर्य. विघ्ननाशकत्वादिगुणं चाश्रित्याभिमतदेवता, शास्त्रकरणे च प्रवर्त्तमानस्य विशिष्टवागर्थप्रापकत्वेनाधिकृतत्वाद् अधिकृतदेवता सरस्वती । तत्र तावदाद्य श्लोकद्वयं व्याख्यायते [स वः पात्वित्यादि-] स जिनो रागादिजेता देवः पातु रक्षतु, वो युष्मान् , य ईक्षते सामान्य
श्रीज्ञानकलशमुनिविरचिता (?) ....
।। ताडीपत्रीयटिप्पणी ॥
॥ सम्पादककृतो ग्रंथोपोद्घातः ॥ [ आद्याम्बासहिताम्नत्वाऽऽदिनाथाघोरसद्गुरून् । कुर्वे तिलकमञ्जर्याष्टिप्पणीसङ्ग्रहं मुदा ॥१॥ हर्षादिभोजराजान्तपरमारमहीभृताम् । मान्यः श्रीधनपालो यां चक्रे तिलकमञ्जरीम् ॥२॥.... ताडीपत्रप्रति ह्यस्याः कथाया ऋक्मिणीसुताः । . . त्रयोदशशते मेदपादयां पुण्यामकारयन् ॥३॥ ताडीपत्रप्रतिः सेयमागमोद्धारकैः पुरा । श्रीपण्यविजय प्राप्ता विहरद्भिर्मुनीश्वरैः ॥४॥ अभ्यासार्थभियं सात्रभवद्भिः सदयैर्ददे ।। नारायणाय कन्सारा-मणिलालात्मजायः मे ॥५॥ . ... .....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org