________________
तिलकमअरी
२५१ स्तूयमानविनयत्यागपौरुषपुरःसरगुणग्रामः, प्रकाशरुचिराकल्पधारिणा सिन्धुराश्वकेसरिमयूरहंसादिविविधवाहनाधिरूढेन धावता समप्रेणाग्रतः खेचरचमूचक्रेण सूच्यमानपृथुपराक्रमः, क्रमेण विक्रमबाहुप्राकाररक्षितचर प्राप नगरम् । उन्नतप्रासादशिखरावस्थिताभिः कथ. मपि वधूमुखमृगाङ्कादवतारिततरलतारतारेक्षणाभिः प्रतिक्षणमारवाद्यमानवदनलावण्यामृतः कृतपरस्परोपमर्दकलहाभिः पौरललनाभिः, प्रविश्य निजनिवासेऽभिनवप्रियामुखनिखातनिर्नि- 5 मेषनयनारविन्दः, प्रतिदिवसमभिनवान्यनुभवन्नववधूनिधुवनोत्सवसुखानि सुखमतिष्ठत् ॥
४४८) गतेषु च कतिपयेष्वहःसु समरकेतोराकारणाय प्रातिष्ठिपत्प्रेष्यान्प्रधान. पुरुषान् । अङ्गविषयाधिपोऽपि श्रुतवरागमननिवृतेन विद्याधरनृपतिना विचित्रवीर्येण साभ्युत्थानमानीय निजगृहे गृहीतापायेन संपादितमलयसुन्दरीपाणिग्रहणमङ्गलः, स्थानस्थानलब्धप्राज्यबन्धुज्ञातिजनपूजोपचाराणि स्थित्वा त्रिदशपुरवासिभिरपि दुरापाण्यहानि, 10 प्रणम्य लोकोत्तरवरप्राप्तिप्रीतमनस समपास्तगर्वः सर्वेण शिरसा गन्धर्वदत्तापुरःसर' श्वश्रुजनम् , उदश्रुखेचरीवृन्दवीक्षितधरं विलङ्घच विजयार्धम्, आवासमायात् । आयातमात्रस्य घास्य प्रह्वीकृतः प्रेम्णा सकलमप्युत्तरश्रेणिराज्यमुत्तरकोसलेश्वरसुतः सार्धमखिलाधिकारैः प्रायच्छत् ।
४४९) गच्छति च काले कदाचिदनवरतसंचरत्खेचरपरंपराख्यातलोकोत्तरचरित- 15 विस्मितः समाहूय सह समस्तेन समरकेतुकमलगुप्तादिना परिवारनृपसमाजेन राजा मेघधाहनः प्रशस्तेऽहनि विधिना शास्रदृष्टेन विष्टरे न्यवेशयत् । आत्मनापि स्वपरसत्त्वेषु सतताबद्धबन्धुबुद्धिः स्पर्धयेवात्मसूनोः समुद्धृतगुरुक्षमाभारः परलोकसाधनोन्मुखो बभूव ।।
४५०) हरिवाहनोऽपि सुचिरानुभूतक्लेशस्य गुणवतो बालसेवकगणस्य विश्राणितानेकमेदिनीमण्डलः प्रतिदिनोपचीयमानप्रसाददानानन्दितैः कमलगुप्तादिभिः प्रधानाप्त- 20 राजपुत्रैरत्यकसंनिधिः प्रयत्नरक्षितप्रजम्, अनुपेक्षितवर्णाचारविष्लवं, दिशि दिशि प्रदापितसकलसत्त्वाभयप्रदानघोषणापटहम्, अविशेषनिर्दिष्टनिःशेषतीर्थिकायतनपूजम् , अपहस्तितसमस्तशासनान्योन्यविद्वेषम्, अच्छिन्नद्रविणदानोच्छादिताच्छिद्रदीनजनदारिद्यम् , अनुरञ्जितसमस्तसाधुसङ्घश्लाघनीयम् , लबूकृतकरप्रकृतिदीयमानातिरिक्तद्रविणपूर्यमाणसंततत्यागरिक्तकोशागारकलशम् , अखण्डितोत्खातरोपितविपक्षराजन्यनिजदेशराज्याभिषेकम् , प्रति- 25 ग्राममास्थापितानेकक्षुत्पिपासाक्षामपथिकसार्थसत्रम् , प्रतिनगरमारोपितोत्तुङ्गगोपुरपुरप्राकारपरिगतप्रान्तशान्तायतनमण्डलम्, अतीतजन्मोपार्जितेन पुण्यानुबन्धिना प्राज्यपुण्यसंभारेण पुञ्जितं पालयन्नेकातपत्रं राज्यम्, . अनुदिनमसाधारणगुणप्रगुणितमनोभिः खेचरैरखनिगोचरैश्च नृपतिभिरहंप्रथमिकोपपाद्यमानस्वकन्यारत्नपाणिग्रहो, महत्यपि परिग्रहजने शश्वदाश्वासहेतुना समरकेतुनैव ससहायमेकयैव तिलकमञ्जर्या कलत्रिणमात्मानममन्यत ॥ 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org