________________
Anwwwnonvarchanane
aimonamommunmarad
२५२
कविधनपालता ४५१) अन्यत्सकलं तृणं मन्यमानः, कदाचित्सिंहलेष्वतर्फितालोकिततथाविधसुताधिपत्यप्रीतहृदयेन चन्द्रकेतुनाभ्यर्च्य सादरमुपनीतसकलचित्ररत्नकोशः, कदाचिदनुबन्धपृष्टबन्धुसुन्दरीसूचितसमरेकतुमलयसुन्दरीप्रथमसंगमस्थानेषु सुतानुरूपजामातृदर्शन
प्रमुदिताभ्यां कुसुमशेखरगन्धर्वदत्ताभ्यामनिशमामन्त्र्यमाणो दिवाप्यनष्टशार्वरीतिमिर5 निचयेषु काश्चीनगरीपरिसरारामेषु ; कदाचिद्रविडेश्वरसुतासुदुःखदृश्यमानविश्रान्तवैराश्रमपदेषु पदे पदे सुलभसान्द्रच्छायचन्दनतरुषु मलयाद्रिकन्दराकच्छेषु, कदाचित्प्रियंवदास्नेहमोहितेन सिंहलराजसूनुना तिलकमञ्जर्या च साश्चर्यशोकमवलोक्यमानपश्चिमजिनायतन. शिल्पकर्मातिशयेष्वयन्त्रितभ्रान्तदेवयात्रागतनभश्चरद्वन्द्वेषु रत्नकूटाद्रिकटकेषु रममाणः; कदा
चिञ्च सोत्कण्ठकाञ्चीपतिसुतावचनेन विद्याधरैरानीतमनभिनन्दितान्यनृपकुमारपाणिग्रहणम10 म्बुधिनिपातदर्शनोपजातानुकम्पेन स्वस्थानेषु नीतं महोदरेण समरकेतोः कलत्रभावमान
यन्पूर्वदृष्टमवनीपालबालिकावृन्दम् , कदाचिदादिष्टखेचरानीतं नवविमानमध्यारोपितस्य मुक्तिसुखवाञ्छया विमुक्तसर्वारम्भनिभृतस्य गलितवयसो गुरुजनस्य गत्वा गत्वा प्रसिद्धसिद्धायतनमण्डलीमण्डितानि दर्शयन्ननेकसुरसिद्धसाध्यसंबद्धानि तीर्थस्थानानि, कदा.
चित्काञ्चनाचलशिरसि भक्तिरसनिर्भरेण महाप्रमाणमणिकुम्भाहृतैः क्षीरसागराम्भोभिः 15 सुरगणेन निर्वर्तितमनारतनिशम्यमाननिरवद्यवृन्दारकवृन्दगीतनाटयं विलोकयञ्जिनजन्ममहो
त्सवम्, एकहेमासनाोपविष्टया मुहूर्तमप्यरहितान्तिकस्तिलकमञ्जर्या दिनान्ययापयत् । असंप्राप्तविप्रयोगस्य चास्य, प्रणयिनीसमेतेन साकं समरकेतुना सपत्नीपरिवारस्य, तेषु तेष्वतिरेकरम्येषु सागरकूलवलयेषु कुलपर्वताग्रेषु पूर्वापरविदेहविजयेषु वर्षान्तरगिरिगुहा
गह्वरेषु महादसरित्तीरपालीपुलिनपरिसरेषु द्वीपान्तरत्रिदशनगरनिवेशेष्वन्येषु च मनो. 20 रमोदेशेषु दिशि दिशि व्योमचारिणा मणिविमाननिवहेन विचरतः पृथिव्यामनुदिनमुपचीयमानपौरुषप्रतापकीर्ते राचस्कन्द परमां वृद्धिमानन्दः ॥ इति ॥
[॥ इति श्रीधनपालविरचिता तिलकमञ्जरीकथा समाप्ता ॥ ]
卐
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org