________________
कविधनपालकता . ४४५) कोसलेन्द्रतनयोऽप्युपसंजातहर्षः सतर्षमाहूय सिंहलेश्वरसुतं दर्शयित्वा विचित्रवीर्यलेखमाख्याय कल्याणकाख्यातमादितः प्रभृति पूर्वदिनवृत्तान्तम्,आबद्धकरसंपुटः सहासमलपत्-'चम्पाधिप ! किमद्यापि चिन्तयसि ? उत्तिष्ठ । कुरु गुरोर्वचनम् । अद्यापि
दृढनिश्चया प्रवर्तितापि ज्ञातिलोकेन, दृष्टे त्वयि त्यक्ष्यति गृहीतानि वनवासवल्कलानि 5 मलयसुन्दरी' । इत्याभिधाय संनिधापितप्रचुरमान्यखेचरबलं सुवेलं प्रति प्राहिणोत् । कुमारो
ऽपि हरिवाहनस्तेनातर्कितेन समरकेतोर्विवाहोत्सवगमनेन विस्मायितमनाः सायमाययो स्वावासम् । अवसितायां च शर्वर्यामुत्थाय शयनादास्थानमण्डपमुपागमन् । निषण्णस्य चास्य निर्वर्तितलकमञ्जरीसंगमोत्सवेन राज्ञा चक्रसेनेन तत्संबन्धसचिवैः प्रसिद्धनामभि
विद्याधरनृपैरपारविभवैश्च नगरपोरैर्नृपाभिषेकमाङ्गलिकसंपादनाय प्रस्थापिताः प्रगल्भवचसः 10 प्रधानपुरुषाः प्रविश्य दिव्यांशुकविलेपनालंकारकुसुमताम्बूलातिसर्जनेन पूजामकाएः । प्रपश्चितबहुप्रकारोपचाराश्च स्थित्वा मुहूर्तमर्चितास्तेन जग्मुर्यथास्थानम् ।।
४४६) एकदा च देहारोग्यवाहॊपलम्भार्थमहरहःप्रेषितैराप्तपुरुपैः प्रकाशितस्नेहमीक्षितुमनाः खेचराधिपं चक्रसेनमाप्तपरिमितपदातिबलपरिवृतो निरन्तरग्रामनगरामुदार
तरुपण्डमण्डितोदग्रदेवतायतनमण्डलामनेकजलरकुकुररकारण्डवाकुलसरित्सरोवरप्रेक्षणीयां 15 स दक्षिणश्रेणिमागमत् । आगतश्चाभ्यर्णमाकर्णितागमनेन गगनचरचक्रवर्तिना प्रत्युद्गम्य
नीतो निजनिवासे ससंभ्रमादिष्टहृष्टपरिजनोपचारप्रीतचेताः स्नानभोजनादिकं कर्म मध्याहूनिकमकार्षीत् । अपराह्नसमये च प्रस्थानाय तेन पृष्टः प्रक्रमे चक्रसेनस्तत्रैव तस्य कतिचिदिनान्यवस्थितिमयाचत । स च पराङ्मुखोऽपि परोपचारेषु, प्राध्वंकृतस्तिलक
मञ्जरीप्रेमानुबन्धपाशबन्धेन तदेवास्य प्रत्यपद्यत वचनम् ॥ 20 ४४७) अन्यदा च निरवद्येऽनि निपुणावधारितवधूयरग्रहबलेन पृष्टसकल· ज्ञातिना दिशि दिशि वितीर्णमित्रनरपतिनिमन्त्रणेन निर्मापितोदारनगरमण्डपशोभेन भोजित.
सुहृद्धन्धुपरिजनेन पूजितगुरुद्विजातिपरिषदा नभश्चरेन्द्रण दत्तामुपयम्य सम्यगनुभूतसकलोद्वाहमङ्गलां तिलकमञ्जरीम् , स्थित्वा च तन्मातृपक्षस्य चक्षुःप्रीतये यथोत्तरमनुत्तरप्राप्त.
नवनवोपचारचारुण्यनन्तरभवानुभूतपुरुहूतलोकावाससौख्यस्मृतिहराण्यहानि कतिचिद्, 25 अकृतात्मीयपरकीयलोकावलोक नैरनीक्षितार्थ्यनर्थिजनमुखच्छायैरनालोचिताल्पानल्पवित्तव्ययै
रगणितगुणज्ञागुणविभागैः कृतार्थीकृत्य वस्तुविसर्गः कृत्स्नमपि दक्षिणोत्तरश्रेणियाचकगणम् , तत्कालमतिशयचारुरूपामारोपितचतुरचित्रालंकारया स्वयमेव चित्रलेखया सप्रपञ्चमुपरचितमण्डनामारोप्य पुरतस्तिलकमञ्जरीम् , अञ्जनाद्रिमिव चन्द्रिकापूरेण दलितकर्पूरकणचूर्णरो
चिषा चन्दनद्रवेण पाण्डुरितगात्रमारूढः प्रौढरागगैरिकपरागपाटलविकटकुम्भकूटं प्रधानजय30 करिणम्, उपरि विधृतेन फेनपटलत्विषा मुष्णन्नुष्णवारणेन जिष्णुतामनुष्णोष्णकिरणबिम्बयो
रुपान्तचालितचारुचामरकलापः, सविस्तरप्रस्तुतान्वर्थवर्णनालापेन पठता पुरश्चारणगणेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org