________________
तिलकमारी
२४९ दूरदेशान्तरादायातमात्रो युवराजसमरकेतुरवगतः । कथमविज्ञातकुलशीलः स्वदेशप्रभवेषु गुणवत्सु विद्यमानेष्वन्येष्वनेकेषु विद्याधरदारकेषु क्षितिगोचरोऽपि वरत्वेनाङ्गीकृतः १ कस्य बुद्धयाध्यवसितमिदमकस्मादुत्सुकेन भूत्वा कार्यम् १ ॥
४४४) इति पृष्टः प्रहृष्टचेतसा स पुनरब्रवीत्-'देव ! सर्वमावेदयामि । श्रूयताम् । इतो वासरादनन्तरेऽहनि जिनायतनकाननान्निर्गत्य निजराजधानीमभिप्रस्थिते 5 देवे, गतायामात्मभवनं भर्तुदुहितरि तिलकमञ्जर्याम् , अमन्दसंघृतानन्देन विद्याधरधुराभृता प्रस्तुते सविस्तरमुत्सवे, ध्वनत्सु सर्वतो वादित्रेषु, नृत्यत्सु प्रतिगृहं पौरेषु, प्रवृत्तासु नगराङ्गनामङ्गलगीतिषु, वितीर्यमाणेष्वन्योन्यन्यमनिवारितकरेषु कुसुमताम्बूलपटवासेषु, पिष्टातकरजःपुञ्जपिञ्जरितरोदसि, विसारिमागधजनजयध्वनौ, अबाधितागच्छदनिबद्धलोकदुःखलभ्यान्तरे क्षणेनैव जातेऽन्तःपुरे, सत्वरमुपेत्य सविकासमुखपङ्कजा मृगाङ्कलेखा 10 नाम तिलकमञ्जर्याः प्रधानसहचरी स्वावासमन्दिराङ्गणनिहितमणिपर्यङ्किकोपविष्टामुत्सवापतदनेकानीकनायकपुरधिपरिवृतां प्रणम्य राजमहिषी पत्रलेखामवोचत्-'देवि ! वर्धसे सार्धमेवागतेन द्वितीयेन मलयसुन्दरीवरागमनोत्सवेन' । इत्युदीर्य देवेनैव प्रथमदर्शने तिलकमञ्जर्याः प्रियत्वेन कथितं यथाश्रुतं कुमारसमरकेतु वरीतारमाख्यत् । देव्यपि तदाकर्ण्य निर्भरोदीर्णहर्षा, तोषतरलिताक्षी निरीक्ष्य निकषा निषण्णां चित्रलेखाम्, 'सखि ! स एव कल्या- 15 णानुबन्धी कल्याणसंपल्लाभः । तूर्णमुत्तिष्ठ । गत्वाद्यैव सर्वाङ्गविनिहितमहार्हमङ्गलालंकारां मलयसुन्दरीमेकशृङ्गादानय, येनैकलग्न एव तस्यास्तिलकमञ्जर्याश्च युगपद्वयोरपि निरूपयामि पाणिग्रहणमङ्गलम्' इत्यवोचत् । असावपि तदाकर्ण्य सप्रमोदा प्रत्यवादीत्-'स्वामिनि ! तवैव कृत्यमिदमसंनिधौ गन्धर्वदत्तायाः। किं पुनः, इदं विचित्रवीर्यदेवेन कारयितव्यम् , इत्यादिष्टमास्ते दृष्टकालत्रयेण मुनिना । यदि समादिशसि तदधुनैव गत्वा त्रिकूटमधि- 20 कारिणं तमेव स्मारयित्वा विवाहविधये प्रवर्तयामि' । 'तथा' इत्यभिहिता च सा तदेवोत्थाय सर्व यथोक्तमकरोत् । तदिति विज्ञापित देवादिष्टम् । अधुना प्रस्तुतं समादिशतु देवः। प्रस्थापयतु जामातर कुमारसमरकेतुम् । आसीदति समुदितैर्ग्रहगणितविद्भिरावेदित करग्रहणलग्नम् । आस्ते वरमुखावलोकनोन्मुखोऽभिमुखमुत्थाय प्रीतमनसा प्रवेशितो विचित्रवीर्यदेवेन काञ्चीपाललोकः । पितुः पर्यके निषण्णा सुता। विवाहदर्शनोत्कण्ठिता 25 तिष्ठति अनारतप्रवृत्तहर्षाश्रुबिन्दुः श्वश्रूगन्धर्वदत्ता। सौधशिखराग्रसङ्गी मुहूर्तमपि मार्गावलोकनान्नोपारमति दुस्तरव्यसनबन्धुसुन्दरीपुरःसरो मलयसुन्दर्याः सखीवर्गः । स्पृहयतितरां गन्धर्वकागमनाय संप्रत्येव विश्रान्तवैराश्रमपदादानीता नित्यवनवासदुःखदु. बलाङ्गी तरङ्गलेखा। निमन्त्रितागतोऽन्योऽपि बहुमन्यते समासीदन्तमुत्सवमुत्सुको विद्याधरलोकः' । इति निगद्य तूष्णीमभूत् ॥ ३२
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org