________________
कविधनपालकृता पद्मादिषु कूलाद्रिचूलाह्रदेषु नन्दनादिपूद्यानेषु त्रिपथगा सिन्धुपुरःसरीषु महासरित्सु पुष्करक्षीरोदमुख्येपु नीरधिषु नन्दीश्वरप्रभृतिषु च वरद्वीपेष्वन्येषु च निसर्गसुन्दरेषु भुवनभागेषु विहरता सार्धमन्वहमनुचरैः कलर्मित्रैश्च यानि प्रमादपरतन्त्रेण प्रस्तुतानि
हसितजल्पितक्रीडितानि तानि शक्यन्ते १ किं च तैः स्मृतैरपि स्वप्नविज्ञानसदशैः फलं 5 साध्यते ? केवल यत्तदा स्वर्गच्यवनसमये म्लायता दिव्यमाल्येन, ग्लायता गात्रला.
वण्येन, मीलयता नेत्रयुगलेन, स्खलता निदेशदानेन, नश्यता त्रिदशभावेन, मूछता मनसि लोकान्तरगमनचिन्तादुःखेन, विलपता परिजनेन, क्रन्दन्तीपु पाश्वतो निरानन्दासु स्वयंप्रभाप्रभृतिषु प्रियाङ्गनासु यन्मनागपि न चलित', स्तुत च यदनेकशः सदसि
विस्मितैः सहवासिविबुधैः, तदधुना विधूयते वैक्लव्येन सत्त्वम् । तदलमतीतवग्तुनिर्बन्धेन । 10 विधेहि धर्यमवलम्ब्य सत्वरः सांप्रतकालांचित कृत्यम् । उत्तिष्ठ तावत । गाढमुत्कण्ठि
तायाः सुचिरकालादुपलभ्य दर्शन दर्शय द्रविड राजदुहितुरात्मानम् । सा हि ते जन्मद्वयप्रणयिनी पूर्वजातिस्मरणविहला दिव्यरत्नाङ्गुलीयकालंकारदर्शनात्प्रभृति मूर्छा मुहुमुहुरनुभवन्ती, वनप्रवेशात्प्रभृति वार्ता च सर्वात्मना तव क्षीणायां, क्षणे क्षणे मरण
दुःखादप्यधिकवेदन शोकमुद्वहन्ती दुःखमास्ते' । इति वारंवार मुच्चारयति हरिवाहने, 15 पावनतवदनोऽङ्गाधिपः शनैरवदत् -'कुमार ! किमर्यमावेदयसि मे ? यदि तदाश्वासने
यत्नः, प्रहिणु कंचिदस्मदागमनवार्ताहर स्वानुचरम् । अहं तु कृतविप्रियः प्रियंवदाभावतः प्रभृति, तस्यास्रपया न शक्रोमि वीक्षितु वदनम्' इति ।।।
४४३) वदत्येव तत्र, प्रविश्य विहितप्रणामा प्रतिहारपाली हरिवाहनं व्यजिअपत्-'विजनमादिश्यताम् , येन द्वारि विद्याधरपते विचित्रवीर्यस्य वल्लभतमः कल्याणको 20 नाम दारकः श्रावयति कार्य किमपि कमनीयम् ।' आकर्ण्य चैतदपसृतेषु स्वयं समर
केतुप्रभृतिषु सगौरवं, व्याहतो वेत्रधार्या, प्रविश्य स कृतप्रणामः कुमारस्याग्रतो लेखमक्षिपत् । उपनीतविष्टरोपविष्टे च तस्मिन्नयोध्यापतिसुतः सतोपमादाय तमवाच यत्'स्वस्ति । त्रिकूटाचलाद्राजा विचित्रवीर्यः स्वसौन्दर्यतुलितसुरलोक शोभासमृद्धावुत्तरश्रेण्या
माश्रितजनशरण्यमनन्यसाधारणगुणाधार महाराजपुत्रइरिवाहनमशेषपृथ्वीविजयलाभाशिषा 25 संयोज्य, निज़शरीरारोग्यवानया सुखयति । कथंचिदुपजाततर्पण झटिति संजातघटन',
वरत्वेन परिकल्प्य भ्रातरं ते समरकेतुम् , अद्यैव वत्माया मलमसुन्दर्याः प्रस्तुतो मया विवाहोत्सवः कर्तुम् । आनीता च रभसेन समनन्तरे ऽहनि तव बिभ्रती वनवासवेषमेषा खनिवासमायुप्मती । निमन्त्रितो मित्रज्ञातिलोकः । स्थापितं लग्नन् । अन्यदपि
कृतमशेषमात्मशेमुषीसमुचितं कृत्यम् । तदयमल्पबुद्धिबन्धु जनज ल्पबाधितो मत्संकल्पः 30 कल्पायुषा नोपहास्यतां नेयः' इति । विचार्य चामुष्य तात्पर्यमुप नातहों हरिवाहनः
सविस्मयेन मनसा व्योमचरदारकं तमप्राक्षीत-'सौम्य ! कथ मन्यद्वीपवासिना तातेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org