________________
२४६
कविधनपाल कृता इत्युदीर्य लज्जावनतवदना क्षणभतिष्ठत् । ततः प्रभृति च प्रतिपन्नवनवासा, कुमुदिनीव निशासु नष्टनिद्रा, स्थलारविन्दिनीव स्थण्डिले शयाना, शबरीव फलमूलकन्दैः कल्पिता. भ्यवहारा, शिशिरदिनलक्ष्मीरिव प्रतिक्षण क्षीयमाणदेहा, निदाघदिनकरप्रभेव स्वतापक्षपितकमलाकरा, 'निश्चिताव्यभिचारिकुशलेन पित्रा मम कुमारान्वेषणाय प्रेषिताः सर्वदिक्षु दक्षाः खेचरा' इत्याशया धृतशरीरा, कदाचिदच्छिन्ननिपतदच्छाच्छजलतुषारतोषितवृषितचातकेष्वेकशङ्गाद्रिकन्दरानिझरेषु, कदाचिदास्तीर्णसरसबिसिनीपला शेषु वर्षागमाशङ्किशिखि कलापकलिताकालकेकाकलहकेलिष्वदृष्टपारसरस्तीरसूत्रितेषु यन्त्राधारागृहेषु, कदाचिदमरनिम्नगासमीरसीमन्तितनिरन्तरच्छदछायेषु वैताद्व्यतटतमालवनषण्डेषु, सततमासन्नवर्तिना
परित्यक्तगृहवासेन परिवारलोकेन प्रयुज्यमानमनेकप्रकार शिशिरोपचारमनुभवन्ती, वर्ष10 कल्पान्पञ्चर
४३७) एकदिनशेष चाद्य तिष्ठति मासि षष्ठे, वासभित्तिषु निवेशिताभिः कराङ्गुष्ठनखशिखोल्लेखरेखाभिः संख्यातसमतिक्रान्तदिवसया क्रियमाणमनयावलोक्य निजतनुत्यागोपक्रमम्, आक्रान्तमनस च बलवत्या शुचा कृतविलापमाकर्ण्य तत इतः सह
चरीलोकम्, उपजातशोकः श्वस्तन दिवसमीक्षितुमशन्कुवन्कृतमरणसंकल्पः सार्वकामिकमिमं 15 पिपतिषुः प्रपातभृगुमुपागच्छम् । आरूढमात्र एवास्मिन्नकस्मादेत्य सत्त्वोपघातरक्षानियुक्तैर्युक्तवादिभिर्विद्याधरभटैरानीय दर्शितो देवपादानाम् ।।
[ इति ४१४ परिच्छेदतः समारब्धो गन्धर्वककथितो वृत्तान्तः समाप्तः । ]
४३८) इति निवेदयति हारदर्शनात्प्रभृति पूर्ववृत्तं तिलकमञ्जरीवृत्तान्तमग्रतो विनयखर्वे गन्धर्वके सहसैव पूर्वजन्मानुभूत सर्वमपि गीर्वाणसदनावाससुखमरमरम् । 20 उपजातमोहश्च मुहूर्तमास्थाय सद्यःस्मरणपथमागतेनोन्माथिना तिलकमञ्जरीमरणत्तान्तेन
विस्मारितसमस्तान्यकरणीयो जिगमिषुरुपनीय गन्धर्वकाय निःशेषनिजनेपथ्यम् 'अश्वोऽश्वः' इति वदन्नभिपेकपीठादुदतिष्ठम् । अनुगम्यमानय रामकालमुस्थितैः समीपवर्तिभिर्विद्याधरकुमारैनिष्क्रम्य खेचरगिरिशिखरमण उपादारोपितप्रकाण्डकनकपर्याणमारुह्यासह्यतेजस्तुरग
रत्नमधिष्ठितप्रेष्ठवरवाजिपृष्ठैरागत्यागत्व परिवार्यमाणपृष्टः पुरःसर पदातिवण्ठैः खेचरप्रष्ठे25 रेकशङ्गाद्रिकूट मुकुट तदेवोत्सृष्टपूर्व जिनायतनमगमम् ॥
४३९) अवतीर्य च द्वारि तस्य प्रविष्टः, प्रणम्य भक्तिप्रवणेन शिरसा सपदि संपादिनविशेषपूज प्रथमजिन बिम्बम् , अवलम्बितप्रणयस्निग्धख चराधिपस्कन्धपीठः पूर्वदृष्टमप्यदृष्टपूर्वमिव सर्वतः प्रियगुसुन्दरीस्नेहेन पुनः पुनरवलोकयन्नायतनमण्डपम् , अखण्डित
शशिमण्डलस्फाररोचिषि स्फाटिकशिलातले परिस्फुटोत्कीर्णनाकलिपिवर्णानुपूर्विका पूर्वान्ते 30 शनकैरव्रजम् । तत्र चानुपमरूपलावण्यसौभाग्यविलासवर्णनाविषयाणि प्रकृष्टसुरलोककविनि
बद्धानि प्रियतमाचरित तद्धानि सविषादहर्षभवाचितचराणि वाचयित्या सुभाषितानि, संभाष्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org