________________
तिलकमअरी
२४३ ४२९) उस्थिते च तत्र संजातसंवेगः समग्रोऽपि परिषज्जनः प्रशान्तेन मनसा विचारयन्विरसतां संसारस्थितेः स्थास्नुषु क्लेशायासबहुलेषु दीर्घदुःखोद्वेगदायिषु बृहत्स्वपि स्वर्गभोगेष्वभिलापमश्लथयत् । भतृदारिकापि सविषादहर्षा विनिःसृत्य सिद्धायतनमण्डपाददभ्रपटमण्डपमनादिष्टेनापि निजकर्मनिर्मापणपरेण कर्मकरलोकेन प्रगुणित प्रागेव गत्वातिरम्य निवासहर्यमगमत् । तत्र च वितीर्य मध्याहूनसमयोपगताय गुरुतपःक्षपितवपुषे विषय. 5 विमुखेन संकल्पेन कल्पनीयमन्नमभिलषितापवर्गाय यतिवर्गाय तीर्थवासिने परमया भक्त्या, भुक्तनिःशेषपरिजना भोजनमकार्षीत् । कृतोपस्पर्शनां च तामवनितलवितततनुकुथास्तरणविन्यस्तवपुषमुपपादितसमस्तमध्याहूनकृत्या कृतप्राणत्तिस्तरुफलैरेत्य वनमध्यान्मलयसुन्दरी स्वैरमवत्-तिलकमञ्जरि ! किमधुना त्वया विधेयम् ? किमत्रैव पर्वतवरे पूर्वनिजवंशपृथ्वीपतिनिवेशितानि प्रतिदिवसमर्चयन्त्याचैत्यसदनानि गमयितव्यानि वासराणि ? 10 अथविशिष्टतरमभिलपयन्न्या पुण्यमन्यतीर्थप्वपि विहर्तव्यम् ?' इति पृष्टा तया पुनः प्रणटहव सा प्रत्यभाषत - 'भगिनिके, न जाने किमावेदयामि । अत्यर्थमाकुलं मे चित्तम् । उद्गतो निनिमित्त एवोद्वगः । प्रिया अपि जनालापा न जनयन्ति प्रीतिम् । अनुलेपनाय प्रयुक्तमतिसान्द्रमपि चन्दन दुनोति गात्राणि । पश्यदिव किंचिदतिभीषण' पुरो मुहुर्मुहुः कम्पते दक्षिणमक्षि । न ज्ञायते किमस्य कारणमकाण्ड एव जातस्य प्रकृति- 15 विपर्ययस्य । किं तातेन मद्वियोगाधिगतवैराग्येणारण्यगमनमारब्धम् १ किमम्बया कृतो मदर्शनावधिराहारपरिहारः १ किमन्यस्य कस्यापि मदुःखदुःखितस्य जनस्य दुर्जात जातम् १ ॥
४३०) इति वदन्तीमेव तां, प्रविश्य सत्वरा, वेत्रधारी व्यजिज्ञपत्-‘भर्तृदारिके ! संप्रति निजप्रस्थानसमये "भद्र ! गत्वा पुनरपि प्रापय कुमारहरिवाहन निजस्क- 20 धावारम्" इत्यादिश्य यस्त्वया प्रणुन्नः, स विषण्ण इव चित्रमायः प्रवेष्टुमिच्छति' । इत्यावेदिते तया सहसैव साध्वसध्वस्तवचना विमुक्तेव जीवितेन देवी न किंचिदुत्तरमवदत् । केवल विशालायताभ्यामक्षिपत्राभ्यां तत्क्षणप्रवृत्त सरलोष्णनिःश्वासधूपितमधरपत्रमिव निर्वापयितुमश्रुधारायुग युगपदमुञ्चत् । अथ मोचितो मलयसुन्दर्या, प्रविश्य स कृतप्रणामः प्रावोचत्-‘भर्तृदारिके ! त्वदादेशसमकालमेव गत्वैकशृङ्गे समन्तात्कुमार- 25 हरिवाहनो मयान्विष्टः, न तु क्वापि दृष्टः । तथापि तद्वत्तान्तमवगन्तु च नियुज्य । निजविद्याधरानागतोऽहम्' ।
४३१) इति निशम्य देवी दीर्णहृदया वृदि प्रदीप्तस्य सहसा शोकवरूद्धमुत्सर्पता धूमपटलेनेव कवलितमुद्वहन्ती मलिनविच्छायमाननमधिकमुपजातवैलक्षा मलयसुन्दरीमुखे चक्षुरक्षिपत् । सापि संतप्तचेतोवृत्तिरपि, 'यदृच्छाकारिणि ! त्वन्मूलोऽयमस्य महात्मनो 30 राजपुत्रस्यानर्थलाभः । त्वरितमुत्तिष्ठ । स्थिता तावदधुना तीर्थयात्रा । यावदद्यापि दूर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org