________________
२४०
कविधनपाला पदप्रख्ये विधृतमङ्गलमात्रैकैकरत्नवलया प्रतिपालयन्ती पत्युरागमनमवलोकित दिङ्मुखा प्रतिदिनमतिष्ठत् । प्रियंवदापि प्रीतहृदया तद्दिकसमेव प्रस्थिता सत्वरमगाधलवणाधिजलपरिक्षिप्तसानोरनेकसुरपादपच्छन्नटङ्कच्छिन्नकटकस्य शिखरिणो रत्नकूटस्य प्रतीचितटपरिसरे कारितोत्तुङ्गमणिमयजिनेन्द्रभवना स्थितिमकल्पयत्' ।
४२२) 'एकदा च प्रियङ्गुसुन्दरी तीरतरुतलोपविष्टा विशिष्टवेषाप्तवृन्दारक. घृन्दपरिघृता निकटमेवारामदक्षिणविभागे तत्क्षणोपजातनिर्माणमनवरतमादिष्टेन वर्षता पीयूषसंवलितमापीयापीय दुग्धाब्धिजलविसरगम्भोमुचा कलापेन पूर्थमाशोरमदृष्टपाराख्यमवलोकयन्ती सरस्त्वरागमनवलगत्तुङ्गकुचयुगाम् , अभिनवद्विपेन्द्रदन्तच्छेइविशदेन दश
दिगन्तव्यापिना मण्डलेनाभ्यन्तरीकृतशरीराम् , अलधुमार्गगमनधर्मप्लोषपरिजिहीर्ष या 10 रसातलगभीरे सुधासरसीव विहितप्रवेशाम् , प्रतिपलाशमासीनमइकलमल्लिकाक्षचक्रवाकस्य
महतो विमानाकारपरिणतस्य कनककमलिनीषण्डस्य मयारूढमारूलपरिमलमूढमधुकरचक्रवालमिन्द्रनीलंकिंकिणी जालवलयितमिव प्रतिबिम्बमुपरि विधृतधवलातपत्रस्य विततपत्रसहस्रमुद्दण्डनालं पुण्डरीकमध्यासिताम् , आगृहीतविविधाकारदिव्यप्रहरणाभिरपरस्पर
द्वषिष्वननुभूताघातवेदनेषु द्विरदकेशरितुरङ्गमहिषाजगरबर्हिणप्रमुखेषु वाहनेष्वारूढाभिः 15 परिमिताभिरप्युत्तमाङ्ग बाहुबहुलतया प्रयत्नपरिभाव्यमानसंख्याभिः परिवृताम् , प्रधानदेवी
मिरद्भुताकारसुरनगरसंबाधेनु नन्दीश्वरादिषु विहृत्य द्वीपेषु दक्षिणाशामुखाभिमुखमापसन्तीं भियसपश्यत् ॥
४२३) 'आगत्य चाग्रतो विधृतवाहनामाननप्रहितसस्मितनयनयुगलामवारितयथाप्रवृत्तपुरःसरपदातिवर्गा जिगभिषुमिव विलोक्य तामुपजातरोपेव निनुतहर्षचिना शनैरवोचत्-'कमले ! किमिति यानान्नावतरसि १ किं त्वयापि क्षीणविभवा प्रियङ्गुसुन्दरी संमातेति विज्ञाताहम् ?' इत्यभिहिता विहस्य तां श्रीरवोचत्-'सखि ! गमिष्याम्यहम् । अतियहून्यहानि मे गृहान्निर्गतायाः । मा कृथास्तावदधुना स्वस्थानगमनानुबन्धम् । अवहिता च शृणु निमेषमात्रमत्रैव स्थिताया ममागमनकारणम् । अचं प्रातरेवाधिरूढे
पर्वगिरिशिखरमप्रौढरोचिषि चण्डदीधितो धातकीखण्डचलितया मध्ये लघणसिन्धोरितस्ततः 25 महितसप्रयत्ननयनया रत्नकूटाद्रिपरिसरे सोद्वेगपरिजना तर प्रियसखी प्रियंवदा दृष्टा ।
सया संदिष्टमेतद्भवत्याः-''भगिनिके ! भाग्यदोषेण मे भगवतोऽपि वचनमप्रमाण जासम् । स तावच्चिरेणापि न समागतो भ्राता भवद्भर्तुः । अधुना च वर्तते मम पासमायमायुः । स्मरिप्यसि से भवान्तरगतायाः । कारयिष्यसि च कारिते मया सानाथ्य
मिह जगन्नाथभवने ।" इति' ।। 30 ४२४) निशम्य चोटेगम्भीमं प्रियसखीचरमसंदेशवचनमुद्विममानमा प्रियङ्गु
सुन्दरी प्रेमपरत्तया जीवन्त्या एव सख्या निधापसलिलाञ्जलिमिव प्रदातुं प्रकृतिदीर्घाभ्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org