________________
तिलकमजरी
४१३) सोऽप्यचिन्तितोपगतथा नभश्चरचक्रवर्तिलक्ष्म्या समुपगूठयुद्वीक्ष्य मां क्षणमात्र' जातविस्मयः, स्मिताचक्षुषा सप्रसादम्। 'एयेहि' इति समुपहतो मया, शोकविकलपरिस्थलद्गतिरागत्य सन्मुखभवाङ्मुख क्षोणितललुलितमूर्धजेन शिस्सा प्रणाममाकरोत् । अनिमेषविद्याधरपरिषद्भवलोक्तिञ्च निश्चलमवस्थाप्य ललाटमधिपीठे हठनिरुखदुर्धरमन्युगेगोद्गमश्चिरयियोगविस्मृताकारं दिक्षया क्षालयितुमिष माच्चरणयुगमविमान्ता- 5 मीरितरश्रुधाराम्भोभिरुच्छ्वस्योच्छ्वस्य दीर्घमनुदीरितध्वनिररोदीत् । उदीर्णकरुणेन च मया परामृश्य पृष्ठदेशे पुनः पुनः करतलेन सस्नेहमुत्थापितः शनैरुन्नमय्य परिमृज्य चोपरिमः वस्त्रावलेन वदनमग्रतः क्षितितले न्यविक्षत । विस्तशोकश्वासमोक्षस्य चास्यः मुहर्तमाथाब कृतमुखेक्षणः क्षीण क्षरमपृच्छम् -'गन्धर्षक ! त्वदवलोकनानुमितजीधिलामा अपि कुतश्कि दुपजतिशङ्कः शक्नोमि' न प्रवृत्तिं प्रष्टुमादरेण देव्यास्सिलकमार्थाः । स्वयं कथावः यातदा: 10 वृत्तम् , यच्च वर्तते संप्रत्यमुष्याः, यत्र चासो, यव्यापारा दिनान्यतिवाहयति । त्वमपि किंनिमित्तमत्रायातः ?'
४१४) इत्यभिहितो गन्धर्वकः स्थित्वा क्षणं क्षितितलन्यस्तदृष्ठिराख्यातुमारभत'देव'! श्रृयताम् । तदानीमष्टपारतीसवासितेन देवेनादिष्टमात्रः एव गत्वा तदाभरणद्वयं भर्तृदारिकयोयोरपि यथोद्दिष्टमत्यसृजम् । अवदं च-“वनदुर्गादुपागतस्य कौशलिकमेत- 15 त्कुमारस्य ।" श्रुत्वा चेदमानन्दनिर्मरा मल यसुन्दरी सादरमादाय तद्दिष्यरत्नाङ्गुलीयक' दक्षिणकराङगुलीभूषणमकरोत् । क्षणेन च स्मृतजन्मान्तरेव क्षीयमाणहर्षाः पराहतमिष प्रेङ्खद्भिरतिभास्वरेस्तन्मयूखैः सहसैव मुकुलायमानपक्ष्मान्तरालनिपतबाष्पजलमक्ष्णो युगलमवहत् ॥'
४१५) 'देव्यपि तिलकमञ्जरी जातविस्मया मिरीक्ष्य तं चक्षुषा निर्निमेषेण 20 निमेषमात्रमतिचिरकालदृष्टमिष्टापत्यमिव हारनीरितानन्धाश्रुवर्षा सतर्षमाकृष्य हृदि समारोपितवती । दर्शयन्त्यपि च सर्वतश्चन्द्रिका पटलसान्द्रस्तदंशुनिचर्मुहूर्तमेकधवल विश्वमाश्विनीत्र जलदोदरप्रविठहरिणाङ्कमण्डला राकारजनिरजनिष्ट । क्षटिति भ्रष्टकान्तिरभाषतः च जातप्रत्यभिज्ञेवोद्वेगगद्गदेन स्वरेण-"सौम्य ! जानासि कस्मादस्य दिव्यहारस्थापतिर्मर्त्यलोके, कथा च संप्रति प्राप्तः कुमारेणायम् इति ?" तां प्रत्याबभाषे-'देवि! 5 पूर्वकालमेषः साकेतन गरे शकावतारसंज्ञ सिद्धायतनमाथातस्य राज्ञो मेघवाहनस्य रात्रा. वुपज्ञानदर्शनेन ज्वलनमभनाम्ना वैमानिकेन प्रेम्णा समुपनीतः” इति । निशम्य चैतदनाकर्णितशेषमचिना निमील्य लोचने मोहपरवशा पर्यपृष्ठे पर्यास्थत् । उपलब्धसंज्ञा. च सुचिरेण सहचरीभिः पृच्छयमाना किमपि मूर्छाकारण नाख्यत् । दुःखदीर्घनिश्वासशोषिताधरपल्लवा च लतेव दुर्वाताहता बाल सहकारस्य म्लानदेहच्छवि कृच्छेण यामिनी- 30 मनयत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org