________________
२३५
5
10
तिलकमञ्जरी
को वा सकलभुवनाधिपत्यमप्रार्थितोपनतमित्थमन्यस्मै प्रयच्छति ? अति हि युज्यते कर्तुमेतन्महाभागस्य वचनम् । किं तु कल्प एष यत एवानल्पसत्त्वो येनैव विधिना समाराधिता, यस्येव साहसेनानुरञ्जित' हृदयमासाम्, तस्यैव देवताः सिद्धिमुपनयन्ति, न परोपरोधेन । किं चायमपि निःस्पृहः । स्वार्थसिद्धावनेनापि परार्थमभ्यर्थितस्त्वम् । आकर्णय पुरावृत्तम्' ।।
४०८) 'अस्त्यत्रैव विजयार्धशिखरिण्युत्तरश्रेण्यामनुत्तरश्रीकमाद्यं सर्वनगराणां गगनवल्लभाभिधान प्रधाननगरम् । तत्र सुरनग इव गिरीणामग्रणीर्गगनचारिचक्रस्य विक्रमबाहुनामा चक्रवर्त्यासीत् ।
नष्टा श्रीरम्बुजानामटति मधुकृतां कांदिशीक कुटुम्ब
क्रन्दन्त्याक्रीडनद्यामपरतटगतप्रेयसीश्चक्रवाकाः । इत्याद्यैश्चारणानां दिवसपरिणतावुच्चरद्भिर्वचोभि
र्जातानित्यत्वबुद्धिर्मुहुरनभिमुखो भोगसौख्यस्य योऽभूत' ।।८।। ४०९) 'स कदाचिदानीय पुण्यरूपैः पापकर्मभिरुपनीतेषु केषांचित्कोकिलानामिव विनाशहेतुपु, केषांचिभृङ्गराजशुकसारिकादीनां परस्पराक्रोशावहेषु, केषांचित्क्रौञ्चवयसामिव मदावहेषु व्यामोहकारिपु, चकोर इव विषदूषितान्नेषु, विषयोपभोगेषु विरक्त- 15 दृष्टिरभवत् । प्रपन्ने च तत्र जरत्तणावज्ञया विपन्नमित्रज्ञातिवर्गे सर्वज्ञनिर्दिष्टमपवर्गमुद्विग्नचेतास्तत्पदाभिषेकक्षममनीक्षमाणो गोत्रजं क्षत्रियकुमारमपरगुणवद्राज पुत्रान्वेषणाय प्रगुणितो राजभिर्गणनीयवाक्येः शाक्यबुद्धिनामा प्रधानबुद्धिसचिवः स्वबन्धुसुतमनगरतिमेन गदितवान्-"अङ्ग ! मुक्त्वा व्यासङ्गमेकक एव गच्छ शृङ्गिणमेकशृङ्गम् । तत्र मित्रान्वेषणाय स्वदेशादुपागतमदृष्टपारसरःपरिसरस्थितनिवेशितशिबिरमखिलक्षितिपतेरैश्वा- 20 कस्य राज्ञो मेघवाहनस्य तनयं नयेन केनाप्यद्यैव कुरु विद्याराधनपर हरिवाहनाख्य कुमारम् । अयं हि प्राक्तने नैव संस्कारेण परसत्त्वोपकारी परमकारुणिकश्च न प्रार्थितो वचनमन्यथा करिष्यति । निश्चित च मयैतदष्टापदकृतास्पदमुपास्य मुनिवृन्दमद्यैव समागताद्वीरसेनादिविद्याधरगणादवगततदीयपूर्वभववृत्तान्तेन । तदपास्तसंशयः प्रवर्तस्व, येनोपात्तविद्यमानीय सादरमेनमासने देवस्य विक्रमबाहोनिवेशयामि ।" ततो “यदादि. 25 शत्यमात्यः” इत्युदीर्य तत्क्षणमेव चलितः प्रासादशिखरावतीर्णमुद्विग्नमेकाकिनममार्गेणापतन्तमभिमुख प्रपातस्य दृष्ट्वा भवन्तमालोचितोपायः प्रयुक्तविद्याप्रदर्शितेन परस्परानुरक्तदंपतिमरणचेष्टितेन विद्यासाधने योजितवान्' ।।
४१०) तदलमनेन मिथ्यागृहीतेन परसत्वोपकारकरणाभिमानेन । सन्मानयैनमनुरागतः स्वयमेव समागतमसदृशात्मीयसाहसवशीकृत प्रधानविद्यासमाजम् । कुरु 30 महामन्त्रिणः शाक्यबुद्धेः सफलमायासम् । अनुभवोत्तरश्रेणिसद्मभिः खेचरनरेन्द्रः प्रवर्तित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org