________________
तिलकम अशी
स्रुताविरल वाष्पप्लुतकपालया पञ्च वर्षदेश्यया राजसुत्या रत्येव शूलायुध शमोन्मूलनाय प्रस्थितं मकरकेतुं मुहुर्धावित्वा दुकूलानले धार्यमाणं मुहुः प्रसार्य भुजलते पृष्ठतः परिरम्यमाणं मुहुर्निपत्य पादयोः प्रसाद्यमानमेकं नृपकुमारमद्राक्षम् ।।
४०४) दृष्ट्वा च द्विगुणजातोद्वेगः पुरोभूय मीचैस्तमपदम् -- 'अहो सुब्रम ! स्थिरो भव । मुहूर्त पृच्छामि किंचित् । किमर्थ में नामरण्यमतितामेकाकिनीना- 5 मेमनुनयपरां परिहरसि बालिकाम् ? क्व व निवारितोऽध्यनया गन्तुमभिलषसि : ?' स एवमुक्तः सलज्ज इव किंचिदभिमुखीभूय भाषितवान् —' एप कथयामि । आकर्णयत्वार्यः । पर्वतवरे समीप एवास्य चण्डगह्वराख्यविद्यासिद्विशिखराय क्षुधितकालरात्रिकुक्षिकुहरकरालकन्दरः संहारो नाम सार्वकामिकः प्रपातसानुः । तत्र पिपतिरनङ्गतिनामा विद्याधरः शिशुरेषागत्य दुष्टदायादैरवष्टब्धास्पदो निवेदेन प्रस्थितोऽहम् । इमाम 10 नत्रम्षा निवारिताप्यादरेण मामेवानुगन्तुमुच्चलिता । मुञ्चती च जीवितमिमां द्रष्टुमसहः पुरस्तादेव गया मोक्तुमहमिच्छामि देहम् । असौ तु जीवत्येव मयि मर्तुमुत्सुका भक्ति मे गमनमेभिः प्रकारैः' । इति निवेदिते तेन, करुणया विस्मृतात्मदुःखः पुनरपि तमन्त्रम् -- 'बालक ! किमर्थम शेषपुरुषार्थसाधके वयसि वर्तमानः प्रेमपरतन्त्रमीदृशमिद कलमात्मानं च निष्कारणमेव करणैर्वियोजयसि ? यद्यभिलषसि भोगांस्तदधुनैव गत्या 15 प्रतिगृहाण मे राज्यम् । अथान्योऽभिलाषस्तस्यापि साधने सज्जः स्वशक्तयाहम्' । इत्युक्ते मया मुदितचेताः स पुनरन्यवोचत् - 'आर्य ! तिष्ठतु सर्वसत्त्वोपकारकं त्वय्येव तावक राज्यम् । यदि तु सत्यमेवानुकम्प से मां, तदेतत्कुरुष्व । अस्ति मे गुरुपरम्परागतः सकलजगदाधिपत्यदायी प्रधानदेवतापरिगृहीतः समस्तमन्त्रग्रामणीर साधारणगुणाधारपुरुषसाध्यो मन्त्रनिवहः । तदाराधनेन लब्धाधिकपराक्रमः क्रमार्जित सत्त्वमिवात्मपोतस्य 20 मृगपतिर्वितर मे राज्यम् ' ॥
२३३
४०५) तच्छ्रुत्वा कृताभ्युपगमोऽह तेन विधिवदाख्यातनिखिलमन्त्रेण शिक्षिततदाराधनकर्मणा दर्शितमदृश्य सूर्याचन्द्रसः प्रकाशमल्पावकाशोदमतिगम्भीरमवनिधरगह्वरमगच्छम् । तस्य चाधस्तादपास्तनिश्चल शिलापिधाने दुरुपलक्ष्यसूक्ष्मद्वारि पर्यन्तरूप्रौढभूरुहि रसातलगृहे प्रविश्य निगृहीतचेताः सततमभियुक्तेन द्वारदेशाभ्यासवर्तिना वि- 25 तीर्णपुष्पधूपानुलेपनेन प्रतिपन्नसाचिव्यस्तेन खेचरेण, त्रिकालमाप्लुतो निर्झरजले वनालोकितवस्तुरूप्रैरनत्रधारितध्वनिभिर नाघ्रातगन्धैर पास्तस्पर्शसंवे दनैरविज्ञातफलरसारखा दैर्धृव पञ्चत्वमागतमात्मानमुद्वहृद् द्भिरुच्छन्न सकलात्मशक्तिभिरिन्द्रियैः प्रतिपन्नदेहः पूजयित्वा प्रणम्य चादरेणादिपुरुषैः प्रतिष्ठितानि विद्यादेवताविम्बानि सन्मुखो भूत्वा सौरिजठराम्भोजमुकुल इव बद्धपद्मासनो दक्षिणाग्रहस्तविन्यस्ताक्षसूत्रः क्रमेण कर्तुं मन्त्रसाधनमुप- 30
क्रान्तवान् ॥
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org