________________
कविधनपालकृता द्विगुणपवित्रदक्षिणकरकमला मलयसुन्दरी यथा देवतार्चनकम निर्मापयति शश्वत्तथा विधत्स्व' । इत्यभिधाय तं प्राहिणवम् ।।
४०१) अन्येशुश्च प्रातरेव स्वावासहर्योपरिस्थः प्रेक्षमाणो मार्गमागमिप्यतो गन्धर्वकस्य विहायसाभिमुखमापतन्तीमस्वस्थचित्तामिव चतुरिकामद्राक्षम् । 'किमियमेकाकिनी विना मलयसुन्दा समागता ?' इति चिन्तयत एव सा समीपमागच्छत् । सहासमाभाषिता च मया प्रणम्य निकटे न्यविक्षत । स्थित्वा च कंचित्कालमवचना विलोक्य पार्थानि शनकैरभापत- 'कुमार ! यदैव मतदारिका महाभागेन सहानीता निजगृहं देव्या तिलकमचर्या, तत एवारम्य तत्रैव स्थिताहमेतावन्त्यहानि तस्याः कुर्वती
चरणपरिचर्याम् । अद्य तु तदादेशादिहापतन्ती समाहूय रहसि बाप्पायमाननयनारविन्दया 10 विनिःश्वस्य वारंवारमतिदीर्घमाज्ञापिता देव्या—'भद्रमुखि ! यत्रैव प्रस्थिता त्वं तत्रैवाधुना कृतस्थिरावस्थितेः कुमारहरिवाहनस्थायमर्पयितव्यः' । इत्युक्त्वा पुरस्ताल्लेखमक्षिपत् ॥
४०२) अहं तु तत्क्षणोपजातवामाक्षिस्पन्देनानिवयं तद्ग्रहणाय पुरतः प्रसारित दक्षिणपाणिम्, अतिवाह्य च क्षणमेकमस्वस्थेन चेतसा, गृहीत्वा शनैस्तमधाचयम्-'स्वस्ति ।
एकशृङ्गाचलकृतावास महाराजपुत्रश्रीहरिवाहनमुदीर्णदुर्वारदुःखा तिलकमञ्जरी दूरानतेन 15 मूर्ना प्रणम्य विज्ञापयति
आश्लिप्य कण्ठममुना मुक्ताहारेण हृदि निविष्टेन ।
सरुपेव वारितो मे त्वदुरःपरिरम्भणारम्भः ॥९७ ॥
तथापि त्वदधीनजीविताहमिह स्थिता तीर्थान्तरगता वा यावत्प्राणिमि न तावत्कुमारेण विस्मर्तव्या' इति । पठितमात्र एव सहसोत्थितप्रबलसर्वाङ्गकम्पस्य प्रणुन्न 20 इव पृथुनाश्वासपवनेन गुरुकृत इव गरीयसा वाष्पपूरेणावलम्बित इव निरालम्बेन पतता
हृदयेन विगलितप्रयत्नागुली परिगृहीतः पपात करतलादलक्षितो मे लेखः । ततः कोऽ. हम् १ क्वायातः १ किमर्थमायातः १ किं मया प्रस्तुतम् १ किमेतदिनम् ? किं निशा १ कोऽयं कालः १ किमेतानि दुःखानि ? किं सुखानि ? किं जीवितमिदम् ? किं मरणम् ? किमेष
मोहः १ किं चेतना ? किं सत्यमेतदाहोस्विदिन्द्रजालम् ? किं स्वदेशोऽयमुत विदेशः १' 25 इत्याद्यविद्वान् बलवता समास्कन्दितो मनोदुःखेन कथमपि विसऱ्या चतुरिकां सौधशिखरादवातरम् ॥
४०३) अभिलपितभूधरभृगुप्रपातश्च मुक्त्वा ज्वलन्तमिव तं प्रदेश शिबिरमावासं परिजनच, केनाप्यनुपलक्षितः प्लक्षपिचुमन्दतिन्दुकोदुम्बरबहुलेन गत्वा
दुर्गवनमार्गेण दूरमुत्सङ्गिताकाशमाशामुखव्यापिना शिखाग्रेण विजयागिरिशिखरमध्या30 रोहम् । अन्वेषमाणश्च तत्राभिलषितार्थसाधक तीर्थम्, एकस्य मार्गवर्तिनश्छायातरोरधस्ता
त्वरिततरमुत्थाय चलितमभिरूपमभिनवारूढयौवनमनुरूपवपुषा विचित्रवेषाकारधारिण्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org