________________
तिलकमञ्जरी
२३१ सततमाज्ञाकारिभिश्चित्रामायमुख्यैः खेचरभटैलाहित्यतटवासिनः स्कन्धावारादनिशमानीयानीय संपाद्यमानसकलप्रार्थितार्थो यथोत्तरं प्रथितयथुतरानुरागया नभश्चरेन्द्रसुतया विसर्जितैः स्वादुफलरसैरासवविशेषः स्रग्दामभिर्विलेपनैस्ताम्बूलैटुकूल रत्नभूपणैश्च कल्पद्रुमसमुत्थः प्रतिदिन प्रवर्तितोपचारः, कदाचिच्च बहुविकल्पैश्चित्रकर्मपुस्तपत्रच्छेदादिभिः शिल्पभेदैरापाद्यमानविस्मयः, कदाचित्प्रश्नोत्तरप्रवहिकायमकचक्रबिन्दुमत्यादिभिश्चित्रालंकारकाव्यैः 5 प्रपश्चितविनोदः, कदाचित्स्वसंदेहनिर्णयाय प्रेषितैः प्रकर्पवद्भिः सह कलाचायः कृतोच्चा. वचविचारः, कदाचित्सहचरीमुखेन रसमुचः स्वकाननोपजाता वृक्षफलजातीः कदाचिच्च शङ्गारसंगतकथाप्रपञ्चसंबद्धाः सूक्तीः सानुबन्धमुपज्ञातमानः, कदाचिदष्टपारसरःस्नानावती
या प्रस्तुपरिहासमेव वारंवारमीरिताभिर्दुरस्थितोऽपि स्वच्छशिरोभिरम्भश्छटाभिरिव कटाक्षवीचिभिराच्छाद्यमानः, कदाचित्पर्वदिवसे निविश्य पुरतः पुरातनमुनेरादिनाथस्य विस्ता- 10 रितानच्छतानमूर्छनमुपेत्य निकटोपविष्टैः स्रुतानन्दाश्रुभिः श्रमणोपासकैरिव निशम्यमान वनमृगैः स्वर्गलोकसंभवं वल्लकीगीतमनवगीतश्रुति श्राव्यमाणः, केवलेनैव शश्वदन्वेषण. परादपि विद्याधरगणादाकर्णिते त्वददर्शनेन दूयमानः कतिपयान्यपि दिनान्ययापयम् ॥
३९९) एकदा तु भुक्तावसाने शयनतलनिषण्णमासन्नोपविष्टै विशिष्ट वेषाकारधारिभिर्विद्याधरकुमारैः परिगतं शिबिरादुपागतः शङ्खपाणिर्नाम रत्नकोशाध्यक्षः प्रणम्य 15 मामवोचत्--'युमार ! विज्ञापयामि । अस्यामेव प्रागतीतायां शरदि निजदेशदर्शनकौतुकेन निर्गत्य साकेतनगरादङ्गीकृतविजययात्रस्य तव कल्याणराशेरशेषदुरितोपद्रवनिवारणाय देवेन कोशलाधिपतिना समर्पितो मे सहैव साहसप्रीतलक्ष्मीकरागुलिमुद्रया चन्द्रातपो नाम वैमानिकविती? दिव्यहारः । स पारितो मया स्वसन्निधौ कालमेतावन्तम् । अधुना पुनरुपश्रुत्य सुकृतिनमिहायातमत्रैवानीतः । तदेप गृह्यताम्' । इति विमृज्य वाक्यम, 20 आकृष्य मणिकरण्डकात्साकमङ्गुलीयेन तमुद्रक्षिपत् ॥
४००) उत्क्षिप्तमात्र एव च तत्र युगपत्प्रधावितेन दिक्षु सर्वासु दक्षाध्वरध्वंसिभस्माङ्गरागभास्वरेण प्रभाराशिना निर्मरमपूर्वत व्योग, कुसुमिताकालकाशवनवितानेव समलक्ष्यतावनिः, नवसुधारसच्छटाभिरिव विच्छुरितमश्वितद्विश्वम् , उद्धृतधूली कदम्बकेसररजोराजय इव व्यराजन्त मरुतः, ज्योत्स्नासवर्णाभूतमुद्भाव्यत ज्योतिरूप्मणा भानवीयम् । 25 अहं तु संजातविम्मयो दृष्टमिव पुरा परिचितमिव भवान्तरे विधृतमिव वक्षसा विमृश्य तं, सुचिरमाकुञ्चिताक्षः प्रीतिविकचेक्षण विहस्थ गन्धर्वकमवोचमविचलेन मनसा'सौम्य ! सम्यगवलोकित मथा मध्यम गुवनम् । न तु विहाय देव्यास्तिलकमञ्जर्याः कण्ठकन्दलमपरमीक्षित क्वचिद्दिव्यवहारस्वास्य समुचितमाश्रयस्थानम् । तदुत्तिष्ठ । तत्रेव गत्वा स्थापयैनम् । इहैव मणिकरण्डके कुण्डलीकृत्य पुनरपि क्षिप्तेन किं फलमनेन ? 30 अनेन च शुकच्छदश्याममरकतांशुवर्षिणा बहिषेवोद्भिन्ननवपत्रेण दिव्याङ्गुलीयेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org