________________
कविधनपालकृतः
२३०
शोका, "हा समस्तलोकलोचनसुभग ! हा निरन्तरोपभोगलालित ! हा विहितपरमोपकार ! कुमारहरिवाहन ! तवाप्ययं सुकृतकर्मा दुरात्मना देवेन विषमवनवासदुःखप्राप्तिहेतुविहितः" इति वदन्त्येव निश्चलनिमीलितेक्षणा मलयसुन्दरी मोहमगमत् ॥'
३९६) 'तां च तदवस्थामवेक्ष्य मुक्तायताक्रन्दा सुता खेचरेन्द्रस्य - " हा प्रिय5 सखि ! त्वमपि दूरीकृतसकलसङ्गा संगता परमवैराग्येण विक्लिवीकृता शोकेन" इत्युदीर्य स्वहस्तकृतवीजना लब्धचैतन्यां तामकार्षीत् । अभाषत च --- " भगिनिके ! स मित्र' कुमारस्य समरकेतुः किं तवापि पूर्वपरिचितो येन विहितप्रशंसा तमनुशोचसि ? किं च स, यथा कुमारस्य न तथा तवापि कारणमरण्यवासस्यास्य संपन्नः ? कथय मे तथ्यम्" इति । तया वारंवार मनुयुज्यमाना विहस्य द्रविडराजदुहिता सत्रीडमभ्यधात् - " अयि नितान्त10 ग्राहिणि ! गृहाण तावन्मुकताम् । न जाने, कियन्तमयापि काल' कुसुमसुकुमारकायस्तमेकान्तदुःसह कान्तारवासक्लेशमनुभविष्यति कुमारः, इति चिन्तयन्ती न किंचित्क्षमा वक्तुमहमन्यत् ।” “सखि ! किमर्थं पुनरसौ कुसुम सुकुमारका यस्तमेकान्तदुःसहं कान्तारवासक्लेशमनुभवति यावदागत्य संप्रति विविक्ते भूरितरसान्द्रच्छायभूरुहि त्वदाश्रमवने कृतस्थिरावस्थितिः सर्वतो विचरद्भिरनिवारितप्रसरैर्नभचर भटैर्न तदनाकुलो मित्रमात्मीय15 मनवरतमन्वेषयते ?” इति जाऩरोपायामिव प्रजल्पत्यां भर्तृदुहितरि सहासवचना मलयसुन्दरी वाचमसृजत् - "अथि मुग्धे ! किमेतत् तदायत्तम् ? अवनीचरो सौ सर्वतोवारितगतिगिरिरिव विगतपक्षो विहायस्यक्षमः संचरितुम् " ||"
,,
३९७) 'आकर्ण्य चैतदुपलब्धावकाशा, विष्वगवलोक्य योग्यतावलोकिन्या दृशा प्रत्येकमन्तिकस्थमनुजीविलोक, निवार्य च कथंचिदादेशमिव याचितुमधिज्यधन्वना 20 कुसुमकार्मुकेण सह समुत्थितान्प्रसादवेपथुस्वे दपुलका दिकान्भावान्, उदासीनेव निस्निग्धनयना, मामवादीत - " गन्धर्वक ! गृहीत्वा तदस्माकमुत्तममाकाशयात्राविमानं तच्चाभिमानधनमभिनवागत विद्याधर सहस्रमधुनैव गच्छ तमरण्यकच्छम् । गत्वा च सत्वरः सपरिवारसदासन्नशैलनिर्झरवारिवृष्टावदृष्टपारसरस्तीरदेवतारा कुमारहरिवाहनम् । आवासितस्य चास्य सततमास्स्व सन्निधौ विदधदादेशम्" इति । ततः “यदादिशति देवी" 25 इत्याभिधाय चलितस्तत्कालमेवागतविसृष्टेना तोयायिना चित्रमायेन निर्दिश्यमानसरणिरागत्य पर्वतारण्यमिदम्, अवस्थाप्य निकपानदीं परिच्छदमशेपम् उत्सुकत्वान्निवर्तितसहाय एवमायातः । ' इति निगद्य गमनाय मां पुनः पुनरतत्वरत् ॥
मानय
३९८) ततोऽहमुत्थाय तस्मात्प्रदेशादात्मपरिवारसहितः सरित्परीसरादागतेन, प्रणम्य परिवृतो विद्याधरगणेन संभ्रान्तकिंकर कलापोपनीतमारुह्य देव्या विसर्जितं निज30 यात्राविमानम्, अन्तिकस्थितेन विविधाभिः पथि विनोद्यमानः सगर्व गन्धर्वेण क्षणेनैव मलय सुन्दरीकृतसमाश्रयं दिव्यमाश्रममुपागमम् । तत्र चापार परिसर निरूपितावासः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org