________________
२२९
15
तिलकमञ्जरी
परिचारिकाभिः पुरोऽवस्थापिते पृथुनि चित्रफलके निपुणमालोच्यालोच्य मकरकेतुबाणवातविद्धा देवस्यैव रूप विद्धमभिलिवन्ती, कदाचिदुपरितनसौधशालारचितरङ्गा समग्र. सोपाङ्गनाट्यवेदनिष्णातासु प्रकृष्टनर्तकीपु प्रयत्नरक्षितमक्षुण्णमन्यैरभिनयाङ्गहारकरणविशेषविषय प्रयोगजातमारोपचन्ती, कदाचित्प्रहृष्टमानसा द्रष्टुमागत मामेव "गन्धर्वक ! कथय कथमम्घासमादेशाद्गच्छता सुवेलभूधरमयोध्यायामीक्षितस्त्वया कुमारहरिवाहनः ? कथ' 5 दर्शितास्य चित्रपटवर्तिनी मत्प्रतिकृतिः १ किमुक्तम् , 'अवलोक्यतामाननम्' १ कियन्त कालममुना सह प्रवृत्तोऽस्मत्कथासलापः ?” इति पुरा कन्यान्तःपुरगतेन देवेनैव सूचित पूर्ववृत्तमस्मस्मवृत्तान्तमावावय पृच्छती, कतिपयान्यपि दिनान्यनयत् । कियद्वा कथयामि ? ताप तन्वति वारिदात्यय इव त्वद्विप्रयोगे दृढ दुर्वारोत्कलिकां दलैरभिनवैरम्भोजिनीनामपि ।
10 पक्षोल्लासितरंहसोऽभिसरसामाली कलध्वानिनः
कादम्बा निपतन्ति मानसभुवो वेगादुपेत्याधुना ॥९५।। तन्वङ्गवास्त्वमिति प्रसादविशद नासीति खेदालस
चटुभरपथावतारिणि जने व्यापारयन्त्या मुहुः । हर्षातिप्रभवाः प्रतिक्षणभवत्स्वेदाम्बुदाहज्वरे
बाप्पाम्भःकणिकाः पयोधरतटे पुष्यन्ति शुष्यन्ति च' ॥९६।। ३९४) 'अद्य तु प्रातरेक निजनिवासप्रासादपृष्ठे कृतावस्थाना नगरपरिसरप्रदेशदर्शनव्यपदेशादागमनमार्गमवलोकयन्ती देवस्य दक्षिणदिगन्तादापतन्तमपगतोत्साह कतिपयसहायं चित्रमायमद्राक्षीत् । दृष्टमात्र एव च तत्र निश्चितत्वदीयावस्थाना विहस्य सविषादमानने मलयसुन्दर्याः चक्षुरक्षिपत् । असावपि विलक्षदष्टिः क्षणेन द्रष्टुमागत 20 दूरादेव तमपृच्छत्-"चित्रमाय ! कुमारहरिवाहनः किमिति नायातः ?” ।'
३९५) 'स तु स्तोकमुपसृत्य विहितप्रणामः प्रावोचत्---' देवि ! विज्ञापयामि । अस्त्युद्ग्रस्वनखराग्रहेतिखण्डितारातिकरिसंहतिः सिंह इव सिंहलेश्वरस्य चन्द्रकेतोरात्मजन्मा जन्मनैव सह समुत्थितेन स्थास्नुना समितिषु भुजस्तम्भसामयन समरकेतुरित्यधिगतयथार्थनामा द्वितीयमिव हृदयमद्वितीयसौहृदः सुहृत्कुमारस्य । स पुनरधुना मयैव 25 गन्धर्वकप्रार्थितेन भर्तृदुहितुस्तिलकमञ्जर्याः प्राभृत कर्तुमात्तद्विरदरूपेण लौहित्यतटपर्वताटव्याः कृतापहार कुमारहरिवाहनमनुसरनर्धरात्रसमये विनिसृत्य शिबिरादसिलतामात्रसहायो भयानकानेकसत्त्वसंचारदुरवतारमुत्तरदिगन्तकान्तारमविशत् । कुमारोऽपि सांप्रतमितोगतः स्वावासमासन्नलोकादाकर्थ तमरण्यप्रविष्टम् , अपहृतः स्नेहेन कर्तुमिव कृतप्रतिकृतमाशागृहीतो अहवाम इव लवमप्यकृतविश्रामः परिश्नम्य भूयांसि मण्डलानि तदेव 30 शून्य वनमविक्षत् । न तु क्वापि मित्रमद्राक्षीत' । इति वदत्येव तस्मिन्नतर्कितोदीर्णदुर्वार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org