________________
तिलकमञ्जरी
२२७ खेचरचक्रस्य, चिन्तयन् ; आयताध्वखिन्नोऽप्यतिचिरेण निद्रामवापम् । यापयित्वा च किंचित्सावशेषामुषामुत्थाय कृत्वा प्रत्युषःकृत्यमनुगतो भृत्यलोकैरागत्य सद्यःप्रमृष्टमणिकुट्टिमोत्सृष्टनवनीरजोपहारमास्थानमण्डपांगारमध्यतिष्ठम् ॥
३८९) दृष्ट्वा च तदशेषतः समुपविष्टदर्शनायातसामन्तपौरामात्यसेनापतिसमाकुलमुपजातशङ्कः सकम्पमलपम्-'अहो ! किमद्यापि समरकेतु याति ?' तच्चाकर्ण्य 5 मद्वचनमेको राजपुत्रः स्थित्वा मुहुर्तमवनताननः सलज्जाविषादमवदत्---'कुमार ! यदेव लब्धस्त्वदन्तिकादागतः कुशलोदन्तलेखस्तदेव युवराजसमरकेतुः कस्यचिदप्यनावेद्य निजयात्रामर्धरात्रसमये निर्गतो निजावासात् । ब्रजश्च विजयार्धभूधराभिमुखमरण्यमध्या. गतेन प्राग्ज्योतिषेश्वरभ्रात्रा मित्रधरेण दृष्टो, निरुद्धश्च निबन्धेन । न च कथंचिन्निवृत्तः। ततोऽहमाकर्ण्य तद्वचनमिदमाकुलमनास्त्वन्निवर्तनाय तत्रैव क्षणे प्रगुणीकृततुरङ्गप्रायसैन्यः 10 सहसैव ध्वजिन्या ध्वजीकृत्य यक्षाधिपराजरक्षितां ककुभमुदचलम् ॥
३९०) प्रचलितं च माभनुगम्य कतिचिद्दिनानि सोद्वेगचेताश्चित्रमायः शनैरवोचत-'कुमार ! भर्तृदारिकया मलयसुन्दर्या त्वदानयनाय वारंवारमादिष्टोऽहम् । तदादिश किं मया कर्तव्यम् ?' अहं तु गमनोत्सुकोऽपि तत्र यन्त्रितस्त्वत्प्रेमनिगडेन, निःश्वस्य दीर्घमनवरतदोलायमानचेताः स्थित्वा मुहुर्तमुत्तरश्रवणोन्मुख चित्रमायमनवम्- 15 'भद्रमुख ! गच्छ त्वम् । आवेदय मलयसुन्दर्या यथाश्रुत वृत्तान्तमेतत् । ब्रूहि चैनां मदीयवचनेन–'कथमस्वस्थमानसोऽहमागच्छामि ? कथं चादृष्टयुवराजसमरकेतुरागतोऽपि ते मुख दर्शयिष्यामि १ तन्न कार्योऽधुना तावदस्मदागमनानुबन्धः। विधेयमवधीरितान्यकृत्येन नित्यमेव मया तदनुसरणम् । त्वया पुनरिमं मत्समारम्भमात्मीयमेव कार्यमवधारयन्त्या न कार्यों मनसि खेदः । किं च देवी तिलकमञ्जरी यथा स्वकार्यपरत्वदोष- 20 मारोप्य कुप्यति न मे, यथा च प्रवर्धमानप्रसादा प्रतिदिन भवति, तथा स्मरन्ती मदभ्यर्थनामिमां प्रवर्तथाः' । इत्युदीर्य त व्यसर्जयम् । गते तस्मिन्ननवरतदत्तप्रयाणः प्रतिभार्गमासन्नतिषु ग्रामेषु नगरेष्वाश्रमेष्वरण्येषु चानुमीयमानगतिषु देशेषु प्रतिदिनं भवन्तमन्वेषयन्निमेषमायकृतविश्रामः सुरभिमासमिव समदकलकण्ठीरवममानुषमरण्यमविशम् ॥
25 ३९१) एकदाचिल्लययित्वा दीर्घमध्वानमावासितायां ध्वजिन्यामपराह्नसमये विधाय मध्याहूनकृत्य निर्गत्य गेहात्प्रचलितः पादचारेण शिबिरादहिः शैलकच्छात्समागच्छन्तमभिमुखमुन्मुखैरवलोक्य दूरादेव सैनिकैराख्यातमात्तशस्त्रपुरःसरद्वित्रिपुरुषमनवरतपाणिप्रहारतरलितेनोत्तालगतिना प्रसर्पता तुरङ्गेग प्रकटितप्रभुकार्यसंपादनानुबन्ध गन्धवकमपश्यम् । त च दूरादेव तुरगादवतीर्णमुपसृत्य किंचिदत्यादराञ्चितेन शिरसा 30 सरभसकृतप्रणाममुपदर्शितस्मितः पुनरुक्तमेह्येहीति भाषमाणो निकटमानीय विकटविस्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org