________________
तिलकमञ्जरी
सर्वमद्यापि पूर्ववृत्तं प्रत्यक्षमिव पश्यामि । केवलमिय भर्तृदारिका मलयसुन्दरी पतितमात्रैव तत्रादृष्टपारसरसि कथमपेतविषविकाश संजाता, कथ च निर्निमित्तमेवाह प्राक्तन' पुरुषरूपमापन्नः, इति न जानामि ॥
[ इति गन्धर्वकवृत्तान्तः । ]
३८३) इत्यादि यथावृत्तमावेद्य निजवृत्तान्तमुपशान्तवचसि गन्धर्व के समं 5 मलयसुन्दरी तिलकमञ्जरीभ्यामन्येन चाभ्यर्णवर्तिना कन्यान्तःपुरजनेन सार्धमाबद्ध विस्मयोsतिचिरमतिष्ठम् ॥
३८४) आदाय च क्षणेन तं तदानीतलेखमुद्वेष्टयावधार्य च पुनः पुनरुत्सुकस्त्वां द्रष्टुमन्तिकोपविष्टां मलयसुन्दरीमश्रावयम् - - ' स्वस्ति अभिमतप्रशस्तोद्देशवर्तिनः परमाराध्यनिखिलविश्वोपकारिणः कुमारहरिवाहनपादपद्मान् लौहित्यतटबन्धोर्जयस्कन्धा - 10 वारात्सराजकः कुशली कमलगुप्तः क्षितितलसङ्गिना प्रणम्योत्तमाङ्गेन सविनयं विज्ञापयति, यत्किंचित्कृतधिया समाज्ञापित लेखमुखेन यच्वान्यदाभाति युक्तम्, तनुको प सर्वमात्मनैव राजकार्ये प्रतिकरिष्यामि ; दुष्करः प्रतिविधातुमेक एव युवराज समर केतुस्नेहः स बध्यो वृद्धोपदेशानाम्, अगोचरः सुहृदाश्वासनानां, न जाने त्वत्प्रवासे किं व्यवस्यतीति महती ममाशङ्का । श्रुत्वा च सविशेषं त्वदभिधानमुद्भूतशङ्का 'किमन्यो- 15 ऽप्यस्ति युवराजसम र केतुर्थस्यैवंविधो दुःप्रतिविधेयः स्नेहः १' इति चिन्तयन्ती चकितमानसा कमलिनीव प्रचण्ड हिमवाताहता मलयसुन्दरी झगिति विच्छायतामगच्छत् ॥
;
२२५
३८५) दृष्ट्वा च मां परिम्लानवदनमुपलक्ष्यमाणनिजदेशगमनेङ्गिताकारमप्रयुकापि स्तोकं परिवर्तितमुखी, मन्मुख निखात चिन्तास्तिमितलोचनारविन्दां विद्याधरेन्द्रदुहितरमवादीत् – 'सखि ! शुकोपनीतेनामुना निजपरिग्रह लोकलेखेन व्यग्रतां क्षणेनैव नीतः 200 स्वशिबिरं कुमारः प्रयातुमभिलषति | वक्तुमक्षमश्च स्वयं त्वदनुज्ञापनाय मन्मुखे वारंवारमवतारयति चक्षुः । तद्विसृज्यतामिदानीमेवायम् । अस्वस्थ मनसा न किंचिदमुना धृते । यातु तावन्निजनिवासम् । आलोकयतु पर्याकुलं परिग्रहलोकम् । अस्तु निर्वृतमनाः । पुनरागमिष्यत्येव च । अद्य प्रति दूरेऽप्यवस्थितः सुधांशुरिव सिन्धुवेलायाः समासन्न एवं कल्याणभागिन्याः । यदैव स्मरिष्यसि तदैवागमिष्यति । किं च प्रकृतिपेशल: 25 प्रायशोऽयमपि सर्वातिशायिना सौहृदेन कलाशास्त्रविचार कौशलेन च त्वदीयेन बुधजनादाकर्णितेन च कृष्यमाणो गतोऽपि रसिकतया न शक्ष्यति चिर स्थातुम् ।' इति भाषमाणां च तामनिच्छुरिव मोक्तुमवनतानना स्थित्वा चिरं तिलकमञ्जरी स्वैरमवदत् - 'सखि ! किमर्थमभिदधासि माम् ? त्वमेव जानासि यत्कर्तुमुचितम् ।' इत्युदीर्थ कार्यक्षम, गमिष्यतो मम प्रागेव साकेतनगरोद्यानपरिचितं चित्रमायसंज्ञ नभश्चरमनुचरत्वमनयत् । 30 प्रस्थितं च तं सहचरीचित्तवृत्तिज्ञा समाहूय मलयसुन्दरी सादरमवोचत् - 'भद्रमुख ! गतमात्रेण त्वया प्रकाश्य पुरतः परिग्रहप्रागहरलोकस्य पुनरपीह प्रापणीयः कुमारः' इति ॥
२९ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org