________________
कविधनपालस्ता कसुरसिद्धसाध्यविद्याधरवृन्दवन्दनीयस्य भुवनत्रयप्रथितयशसो विशिष्टदेवताविहितनिष्पत्तेरादिदेवतायतनमण्डपस्य शिखराग्रभागेन लील या निबद्धलोलध्वजपताकमुत्तम यानमास्थितो यातुमभिलपसि १ मां च करुणया पुरोभूय कृतनिषेधम् “अपसर” इति वारंवारमविश. तितस्तजयसि ? गतोऽस्याधस्तादनेन दुश्चेष्टितेन । क्व यासि दृष्टः १ पतितोऽद्य दृष्टि
गोचरे महोदरस्य । हता, हताश ! ते विद्याधरकृता विहायसि चिरंतनी सा यदृच्छाचा5 रिता । यदि परम् , इदानी पक्षविक्षेपेण देवतायतनानि लङ्घयसि । लघिमानमाश्रित्य
शरणार्थमालोकयसि किमलीकमेवाशाः ? निराशीकृतोऽसि दुष्कृतिकृतान्तेन । न चिरादपि प्राक्तनी प्रकृतिमासादयिष्यसि, विनास्मत्स्वामिनीप्रसादम् ;' इत्युदीर्थ दत्तहुंकारः स्थानस्थ एव तद्विमान कथंचिदुक्षिप्य दूरमदृष्टपारे सरसि न्यक्षिपत ॥
३८२) क्षणेन च निमज्य पतनवेगादुन्मग्नवति तस्मिन्नकस्मादेव च शुकभाव10 मापन्नमात्मानमद्राक्षम् । उपजातमूर्च्छश्च तिर्यग्जातिगमनदुःखावेगेन गमयित्वा मुहूर्तम् ,
उड्डीय च द्वारदेशाद्, एकनियूहकनिविष्टः, 'क्व यामि १ क्व निपतामि ? किं करोमि १ कमुपैमि शरणम् १ को मां व्यसनसंकटादितः ऋष्टुमलम् ?' इत्यादि तत्तद्बहु विचिन्त्य, कुतोऽप्यदृष्टप्रतीकारस्तत्रैव देवतायतनमण्डले श्लथीकृतस्थानान्तरगतिः स्थितिमकल्पयम् । 'अलीक
मेव हितलोकस्य दुःखहेतुना प्रकाशितेनात्मना न किंचित्फलम् , अलब्धविश्रान्तिनाय15 मायुःपरिसमाप्तिकाल' यावदनुभाव्यो मया शुकभावः', इति भावयित्वा च मनसि, कस्या
प्यदर्शिताभ्यर्थनो, बन्धुजनमप्यनालपन , सुहृद्वर्गमपि परिहरन् , गुरूणामपि निगोपयन्नात्मवृत्तम् , अवनीपतिपरिग्रहलोकदर्शनमात्रसंत्रातजीवितः प्रभातसायाह्नेषु कृतदेवतागुरुनमस्कृतिः, एकतरुशायिभिः कूरात्मभिर्वनविहङ्गः सार्धमकृतसङ्गः स्नेहलिङ्गावधीरणपरोऽपि
साधारणजातिजनितप्रीतिभिरनेकैः शुककुलैरागत्यागत्य परिवृतस्तत्रैव देवतायतनकानने परि20 भ्रमन् , सर्वतस्तरुफलाहारसंपादितशरीरवृत्तिरेतावन्ति दिवसान्ययापयम् । पूर्वजातिस्मृ.
तिस्तु तिर्यक्त्वेऽपि मे नापयाता । किं तेनैव पश्चादुत्पन्नकरुणेन रक्षिता यक्षेण ? किं वा शुकत्वमपि मायामयं मयि निवेशितम् , येन तत्कालमप्युपरितनभूमिकामेत्य भर्तृ. सुतया मलयसुन्दर्या यथा स वस्त्राञ्चलग्रन्थिमुन्मोच्य वाचितो वारंवारमस्पष्टलिपिरिष्टलेखः, यथा सरस्तीरतटनिविष्टेयमम्बया दृष्टा, यथा यथासमाख्यातनिखिलप्राच्यवृत्तान्तजाताकण्ठया कठिनमाश्लिप्य देव्या पत्रलेखया दिव्य देवतायतनमानीता, यथा नीयमानापि तयात्यादरेण यातुमनिच्छती खेचरपुर सपरिचारिका तत्रैव त्रिभूभिमठमध्यभूमिकाकृताव. स्थितिः स्थिता, यथोद्यानदीर्घिकारोधसि कुमारेण सार्धमारब्धसंलापायाः प्रस्तावमुपलभ्य याचिताज्ञोऽहमागतः समीपमस्याः, यथा 'समीपस्थेन दूरस्थितेन वा विपदमापन्नेन वा
भवता न विस्मर्तव्य एष सहसास्माभिः क्षणमात्रमुपजातो वचनपरिचयः' इति पुरा 30 भाषितमनुस्मृत्य वचन कुमारस्य नीतो मया लेखः, यथा च कमलगुप्तेनार्पित प्रतिलेख.
मादाय शिबिरादागतः प्रीतमनसा कुमारेण सादर समुत्क्षिप्य स्वाङ्कमारोपितोऽहमित्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org