________________
कविधनपालकृता निश्चलैवावस्थितास्मिन् । अद्य पुनरकस्मादेव वयित्वा मच्चक्षुरेकाकिनी हेतुना केनाप्यकश्वापदाकीर्णमर्णवोपकण्ठपुलिनमिदमागता । दृष्टा च पृष्ठत एव निर्गत्य निपुणमन्वेषयन्त्या मयारण्येऽस्मिन् । उदीर्णरोषया च निर्भत्सिता बहुप्रकारैः प्रथमम्, उपजातपश्चात्तापया च पश्चात्सुचिरमनुनीता, भीतया च श्रान्तेत्यविश्रान्तया सिक्ता कमण्डलुजलेन । 5 तथाप्येतया नोत्तरं मे दत्तम् । अधुना च पश्यन्त्या एव मे विगतचेतना संवृत्ता । दृष्ट्वा च झटिति प्रनष्टचेष्टाभिमामचिन्तितोपनतकष्टेष्टविरहव्याकुलीकृता कर्तुमसमर्था प्रतीकारमेवं पापकारिणी विलपितुमारब्धा' ॥
२२२
३७६) निशम्य चेदं वचनमस्याः सशोकविस्मयः स्थित्वा मुहूर्तमवहितेन चक्षुषा तस्याः कन्यकायाः शरीरचेष्टा मसकृदालोकयम् । अवादिष च योषितमिमाम् - 10 'आर्य ! मा विषीद । विषविकारोऽयमस्याः समन्ततो वपुषि विलसितः । सचेतनाद्याप्यसौ । समर्था जीवितुम् । किं स्वमोघवी दिव्यौषधिसमूहसंबाधमधुनैव
गन्तव्यमनया
स्थानम्' ||
३७७) इत्युदीर्यं किंचिदन्तस्मितश्चिन्तितवान्- 'अहो विचित्रता कार्यपरिणतेः । या “स्वशुद्धान्तसौधावबद्धवसतिरने कलीलाविलास निर्भरं भोगसुखमनुभवन्त्यद्य दिष्टा मया 15 द्रष्टव्या" इति चिन्तितम्, सैव चिन्तितानन्तरमेव भीमकान्तारमध्ये धरणितलनिषण्णा विगतचैतन्यविग्रहा दृष्टा महानुभावा मलयसुन्दरी । यदि कथंदचिहमनेनाध्वना नागमिष्यं कथमिमामिह स्थितामद्राक्षम् ? " सर्वथा दधत्याप्यवस्थामिमां जीवितव्यमनया" इति मनसा विमृश्य निजबिमानमध्ये सविधवर्तिनः सरस्तीरदेशादभिनवोद्धृतैर्नलिनीदलैर्मृणालकन्दैः प्रत्यप्रभग्नैश्चन्दनप्रवालैर्निषद्यामरचयम् । तत्र चातितीव्रविषदाह वेदनोपशमाय 20 शनकैर्निधाय तां पिधाय च प्रथीयसा निजप्रावारेण सर्वाङ्गेषु, जिगमिषुः, अन्वेषितानेकमलयसुन्दरीजीवितोपायनिःसहं चित्रमायमवदम् - - ' सखे चित्रमाय ! चलितस्तावदहमभिलप्रितमुद्देशम् | त्वया पुनरिहैव शोकापहारिभिर्वचोभिरार्यामिमामाश्वासयता दिवसमेकमासितव्यम् । यदि तावदेषा पुण्ययोगादपगतविषोपद्रवा शीघ्रमेव संवृत्ता, ततोऽहमधुनैव सार्धमनया समागत्य गतविलम्बः, समादिष्टमम्बया विधाय गन्धर्वदत्तादर्शनम्, अयोध्यायां 25 पुरा कुमारस्य यत्पुरः प्रतिपन्नमालेख्यदापनादि प्रयोजनं तदहमात्मनैव सर्वं करिष्यामि । अविलम्ब दैवयोगात्संजातः, ततः क्षिप्रमेव भवता परित्यक्तपुरुषरूपेण देशान्तरप्रापणक्षम लक्षित प्रतिपद्य किमपि प्राणिरूप रक्षतात्मानमादरेण रथनूपुरचक्रवाल कुमारो नेतव्यः । तत्र हि गतेनानेन महती कार्यसिद्धिरस्माकम् ॥
३७८) इत्यभिधाय, सत्वरस्तस्य दारुभवनस्य शिखर भूमिका मध्यरोहम् । 30 उत्पतितश्च दूरम्, अनादरप्राप्यविविधमणिदिव्यौषधिगणा मे कशृङ्गवैताढ्य शृङ्गिणोरन्तरालाटवीं प्रति प्रचलितः, प्रकटितातिपदुरंहसा चटुलचलितपट्टांशुकपताकापाणिभिर्ध्वज भुजैर्विभजतेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org