________________
२२६
तिलकमञ्जरी
क्षणेन दीर्घकालमस्य परमोपकारिणः प्रसादेन' । इत्युदीर्य पूर्ववृत्तं चित्रपटवृत्तान्तमावेदयम् । अपृच्छं च तं 'गन्धर्वक ! तदास्मादन्तिकादुत्थाय क गतो भवान् १ क स्थितो दिना. न्येतावन्ति ? किं कारणं चिरावस्थितेः संवृत्तम् १ कुतश्चाद्य विद्युदुन्मेष इव सहसा प्रादुर्भूतः ?' इति ॥
[ अथ गन्धर्वकवृत्तान्तः। ] ३७३) पृष्टः प्रहृष्टेन पूर्ववृत्तान्तं मया, गन्धर्वकः समुद्भूतपूर्वानुभूतदुःखस्मरणलवबाष्पजलबिन्दुपूर्णलोचनो विनिःश्वस्य नीचाक्षरमवोचत्-कुमार ! किं कथयामि मन्दभाग्यः ? तदा विमुच्य मत्तकोकिलोपवनमध्यमयोध्यानगर्याः प्रचलितोऽहमभ्यत्सकतया तत्रैवाहूनि सायाहूनसमये त्रिकूटगिरिशिखरगोचरां खेचरराजधानीमव्रजम् । प्रविष्टश्चात्र दृष्टमात्रो हृष्टमनसा मित्रवर्गेण नीतो निजावसथमुपपादितातिथिसपर्यश्च प्रदोष एव गत्वा 10 चक्रवर्तिनं विचित्रवीर्यमद्राक्षम् । आवेदितसर्वसंदेशश्च प्रभातसमये समासाद्य देव्या पत्रलेखयोपयाचितं शिशिरकालात्ययविहारक्षम मलयाद्रिहरिचन्दनविमानमभिलषितगन्धर्वः दत्तादर्शनः काश्चिनगराभिमुखमचलम् । उत्तरीयाञ्चलनिबद्धनिश्चलसमरकेतुलेखश्च लङ्घयित्वा लवणजलराशिमुत्तराशाभिमुखमापतम् ॥
३७४) प्रशान्तबैगश्रमसमीपे मलयपवतोपान्तवर्तिनः पारावारपुलिनादुच्चरन्त- 15 मतिकरणमाक्रन्दशब्दमाकये मनस्यकरवम्-'कः स्वभावमधुरस्वरोऽयमस्वैरमेव विलपति ? इति विचिन्त्य वियतोऽवतीर्णरितमिरतरुतलच्छायानिषण्णामितस्ततो लुलितविस्रस्तकेशहस्तामंसविन्यस्तवसनवल्कलप्रान्तविषमावृतपयोधरामधःकृतोत्पातवात्यया. निःश्वाससंहत्या शश्वदाबद्धशोषमधरपत्रमिव परित्रातुम श्रुधाराजलमजस्रमक्षिपत्राभ्यामुत्सृजन्तीमुद्वाष्पदृष्टिना समुत्सृष्टपूर्वदृष्टवन्यौपधिरसप्रलेपादिकर्मणा मुक्तमन्त्रपदापमार्जनेन पार्श्ववर्तिना तापसी- 20 जनेन शोच्यमानमवनिपीठप्रसारितनिरायताङ्घ्रिद्वयामुदीर्णदुःखातिभारगद्गदव्याहारेण दूरनिर्झरिणा स्वरेण समकालसंहृतसमस्तचिरकालचिन्तितमनोरथबातामन्तःकरणमाथिभिः करुणवचनैः पुनः पुनर्विधिमुपालभमानामीषद्गलितयौवनामनिन्द्यसर्वाङ्गीमेकामङ्गनामद्राक्षम् । उद्भूतपरमोद्वेगश्च भूत्वा पुरस्तामप्राक्षम्-'आर्य ! किमर्थमाक्रन्दसि ?' इति ॥
३७५) सा तु मे वचनमाकर्ण्य सत्वरोन्मीलितेक्षणा निपत्य पादयोरुपर्युप. 25 रचितकरसंपुटा सदैन्यमवदत्- 'पुत्र ! कि ब्रवीमि १ कुरु मे परित्राणमखिलगोत्रस्य । देहि दुर्लभैकापत्यप्राणरक्षाभिक्षाम् । इयमशेषदक्षिणापथक्षोणिपालस्य राज्ञः कुसुमशेखरस्य सर्वस्वभूता सर्वशुद्धान्तरमणीशिरोमणेरुदरसंभवा गन्धर्वदत्ताया मलयसुन्दरी नाम दुहिता। शत्रुविगृहीतेन पित्रा किमपि निश्चित्य चेतसा मन्त्रमर्धरात्रसमये कृताभ्यर्थनेन समर्प्य मे सहसैव निष्कासिता काञ्चीनगरात् । अलक्षिता च नागरलोकेनानीत्वा तदनुजीविभिः 30 स्थापितात्र निर्जने तापसारण्ये । प्रतिपन्नमुनिकन्यकावेषा च कंचित्कालमपगतचापला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org