________________
5
कविधनपालकता कारिणी किमन्याप्यनुभावसंपद्, अनेन संवीतविग्रहमाग्रहव्यापृताक्षोऽपि लोकः स्तोकमपि नालोकयति देहिनम् , अधिमूलाक्रान्तभोगनालोऽपि न दशति दन्दशूकः, निःशूक पुरुषसरोषपातितास्तिलमात्रमपि कृन्तन्ति न कृपाणधाराः, कण्ठावधि निपीतान्यपि न वेविषत्यङ्ग विषाण्यजङ्गमानि, शश्वदवलोकितच्छिद्राण्यपि न जातुचिच्छलयन्ति यातूनि, याता अपि जरामवयवेषज्झन्ति झगिति संनिपातज्वरपुरःसरा रोगाः । किं वानेन बहुभाषितेन ? स्वभावदुःप्रतिषेधानीषदप्यलब्धपुनरनुग्रहानमोघभाषिभिर्दिव्यपुरुषैः सरोषमारोपितानपहरति दीर्घशापानपि स्पर्शमात्रेणायम्' इति' । निगद्य, मद्गात्रमुत्तमाङ्गेन सह तेनाच्छादयत् ।।
३७०) अथ शिरीषकेशररेणुपरमाणुभिरिवारब्धेन शरदरविन्दकोशमध्यादिव लब्धजन्मना सुधारसकुण्डकुक्षेरिवाकृष्टेन मलयाद्रिहरिचन्दनच्छाययेव छरितेन मूर्छामिव 10 जनयता निद्रामिवानयता क्षीरसागर इव स्नपयता निर्वाणसौख्यसंख्यामिवाचक्षाणेन प्रहा
दिना तदीयसंस्पर्शन परवशीकृतं बिभ्रतो ममाङ्गमुत्सङ्गदेशादलक्षितोद्गमः सहसैव त समुतिक्षप्य दिव्यपटमग्रहस्ताभ्याम् , उद्ग्रयौवनः पुमानग्रतोऽभवत् ॥
३७१) अवेक्ष्य च तमादौ भयविहस्तेन, ततोऽभिमुखविन्यस्तविस्मयस्तिमितचक्षुषा, पश्चात्प्रहर्षपरवशेन, 'गन्धर्वको गन्धर्वक' इति सहासमुद्घोषिनिकषावस्थितेन तेनान्तः15 पुरपुरंध्रीजनेन परिवर्तितमुखे च, विघटितपटप्रकटिताकारमवलोक्य मां झटिति कृतसप्र
श्रयप्रणामे तत्र, रभसप्रधावितात् , 'देवि ! दिष्टया वर्धसे, यः पुरा विनष्ट इति शोचितः सुचिरमासीत्स संप्रति कुमारहरिवाहनस्योत्सङ्गदेशादनुपहतविग्रहो गृहादिव विनिर्गतो गन्धर्वकः' इत्याकर्ण्य चपलचेटीजनाद्, उत्पन्नसंभ्रमा सविस्मयानन्दमासन्धाः समुत्थाय
दर्शितपथा पुरस्थितेन तेनैव शुद्धान्तचेटीजनेनान्येन च यथाप्रवृत्तिश्रवणादुञ्चलितेन 20 चटुलगतिना समासन्नपरिजनेनानुगम्यमाना मलयसुन्दरीद्वितीया देवी तिलकमञ्जरी
तत्रैवागच्छत् । अभ्युद्गता च प्रकटितादरेण मया संभ्रान्तपरिचारिकोपनीते सविभ्रमबीडमासने न्यविक्ष्यत । अविलोक्य च मां, पुनः पुनस्तथादरविशेषसंपादिताहारमामोदिहरिचन्दनद्रवानुलिप्तसर्वाङ्गमाबद्धमालतीकुसुमशेखर मुपनीतदिव्यदुकूलरत्नालंकारमभ्यर्णोपविष्ट.
प्रेष्ठसधीचीजनं जातपरितोषा स्तोकमुपमृत्य विहितप्रणाममाहूय गन्धर्वकमन्तिके न्यवेश25 यत् । परामृश्य च पुनः पुनः प्रणतशिरसमग्रहस्तेन मौलौ मलयसुन्दर्याश्चरणयोरपातयत् ॥
३७२) ततोऽहम् ‘देवि ! पश्य त्वत्प्रसादीकृतेन दिव्यपटरत्नेन पुनरसंभावितदर्शनं कुतोऽप्यानीय दर्शयता परमबन्धुकल्पमेनं गन्धर्वकमभिप्रेतार्थतोऽधिकं झटित्येव मे संपादितमभिलषितम्' इत्यवोचम् । श्रुत्वा च मद्वचनमिदमुपजातविस्मया खेचरेन्द्रतनया
विवर्त्य किंचिद्वदनमव्यक्तया वाचा काश्चिराजपुत्रीमपृच्छत्-'आर्थे ! पूर्वमपि कि कुमारेण 30 दृष्टो गन्धर्वकः ?' सा प्रत्यवादीत् -'सखि ! कुमारमेव पृच्छ । नाहमवगच्छामि वृत्तान्त
मेतम् ।' ततोऽहमवदम्-'देवि ! न केवलमयं गन्धर्वकः, त्वमपि दृष्टा निर्विघ्ननिहिते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org