________________
२१९
तिलकमञ्जरी विस्तारिताभ्यवहारतर्षमविषयवर्तिन' वर्णनायाः कदाचिदप्यमुक्तपूर्वमाहारमुपभुक्तवान् । उपस्पृश्य चापरसुखासनस्थः स्थित्वा चिरंतनाभिस्ताभिस्ताभिरभिमतवस्तुसंकथाभिरावासगमनाय देवी प्रष्टुमन्तिकनिविष्टां मृगाङ्कलेखां प्राहिणवम् ॥
३६७) अथागत्य विस्मयोत्फुल्लनयना महाप्रतीहारी मन्दुरा प्रणम्य सादरमवादीत-संप्रत्येव दक्षिणदिङ्मुखादागतो निसर्गरमणीयाकृतिः शुकशुकन्तिरेको द्वारमध्यास्ते। 5 ब्रवीति च “कृतप्रेषणोऽहं लौहित्यतटवासिनः स्कन्धावारादुपागतः कुमारहरिवाहन द्रष्टुमिच्छामि" इति ।' अहं तु तच्छुत्वा 'प्राक्तनेऽहनि वनान्तसरसीतीरवर्तिना वितीर्य लेख मया स्वशिबिरं प्रति प्रेषितो यः स न्नमयमायातः इति विचिन्त्य' विज्ञापयितुमागताम् 'मन्दुरे! गच्छ गच्छ, प्रवेशय' इति साग्रहस्तमवोचम् । अथ प्रस्थाय तत्क्षणमेव सा प्रश्रयोपरचिताञ्जलिः ‘पश्य, गुणवन् ! इदानीमेव निर्वर्तिताहार कुमारम्' इत्यभिहितवती । 10 स तु तदीयवचनानन्तरमेव सत्वरः स्तम्भशिखरादवतीर्य तिर्यक्प्रचलितः सरलितसुरेन्द्रचापरेषास्वसंचारेण सीमन्तयन्नन्तरिक्षमीक्ष्यमाणः कुतूहलाकूततरलितोत्तानतारकाभिरन्तःपुरकुमारीमिरव्याकुलः प्रविश्य, पूर्वदृष्ट इव तत्राहारमण्डपे संवृताग्रतुण्डसंदंशसंग्रहीतमुत्सृज्य मञ्चरणयोः पुरस्तादजर्जर भूजलेखमावर्जितशिराः किंचिदुच्चोच्चारिताक्षरेण स्वरेण जयशब्दमकरोत् ॥
.. . 15 ' ३६८) दृष्ट्वा च तं तथागत्य कृतदर्शनमकारण एव साधितानन्यसाध्यकरणी: यमायताध्वश्रमक्षामनिःसहशरीरमद्धि पीठोपकण्ठभुवि सविनयोपविष्टमुपजातपरमोपरोधः स्थित्वा क्षणमवोचम्-'महात्मन् ! सर्वदा स्वाधीनवनफलाहारनीर निरीहमेकान्ततो विशिष्टान्नपानदानेष्वघटमानमाल्यवस्त्रप्रसाधनाभरणवेषग्रहणमेवंविध विधिवशाद्विहङ्गरूपमापन्नस्य करुणानिधेः कस्यापि गुह्यकस्य गन्धर्वस्य विद्याधरस्य वा भवतः प्रह्वीकृतोऽपि बल- 20 वता स्नेहेन मादृशः किं करोत्यभ्यागतातिथ्यम् ? तथाप्युत्तिष्ठ । कुरु कियन्तमपि मे मनःपरितोषम् । इति निगद्य युगपत्करयुगोत्तम्भिताङ्ग तमुत्सङ्गमनयम् ॥
__३६९) कृतकुशलसंप्रश्ने च स्पृशति मन्दमन्दमामीलिताक्षस्य नवशिरीषपक्ष्म- . सुकुमारतनूरुहाणि तस्याङ्गानि संजातपरमप्रमोदे मयि, समागत्य कुन्तला नाम तिलकमञ्जर्याः शयनपाली सप्रश्रयमवोचत्-'कुमार ! देवी विज्ञापयति । “अद्य मे त्वत्सकाशा- 25 दुपागतया मृगाङ्कलेखया समाख्यातं यथा किल परैरलक्षिततनुः कुमारो दिदृक्षते नगरमिति । तद्यदि सत्यमेतत्तदमुना स्पर्शानुमेयेन निशीथनाम्ना दिव्यपटरत्नेन प्रावृताङ्गः पश्य त्वम् । अयं हि मे हिमाचलशिखरसद्मनः सिद्धनिम्नगासिन्धुनिर्गमादुद्गर्वपूर्वापरतटस्य प्रमृतसर्वपथीनपृथुलोर्मिसंघातघट्टिताशाकरिकरटकूटस्य घिष्टपत्रितयविख्यातशोभासंपदः पद्मनाम्नो महादस्यैकदा समं सहृदयसुहृजनेन रामणीयकमवलोकयन्त्यास्तद- 30 कपङ्कजवननिवासिन्या श्रिया समाहूय सादरं समुपनीतः । प्रकटिता चास्य परमाश्चर्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org