________________
कविधनपालकता मन्दुरे! द्वारमण्डपादुत्थापय प्रभातसेवायातमखिलमपि खेचरकुमारीजनम् , रञ्जिके ! रञ्जय तलिनध्वान्तशितिम्ना तमालवल्लीपल्लवरसेन श्रीमण्डपादारभ्य सकलाः सौधवलभीः, कुरङ्गिके ! विकिर मणिकुट्टिमेषु व्योमजाह्नवीजलजोपहारम् , गौरि ! दापय द्वारतोरणेपु जाम्बूनदाद्रिजम्बूप्रवालचन्दनमालाः, चन्द्रलेखे ! विलिख प्रशस्तललितानितस्ततः क्षीरोदमौक्तिकक्षोदः स्वस्तिकान् , अवन्तिके ! मिश्रीकुरु प्रत्यग्राहृतेन दिक्करिकपोलदानदर्पण गोशीर्षचन्दनाङ्गरागम्, तरङ्गिके ! गृहाण विद्याधरेन्द्रगृहिणीभिः प्रेषितानपूर्वपरिमलमुचः फलपुष्पासवान् , वसन्तिके ! वासय घाणपुटसर्पिभिः कर्पूरवासैनिसजलभृतानम्भःकुम्भान् , पुरंदरिके, पूरय सुखोष्णसुरभिणा गन्धसलिलेन भर्तृदारिकास्नानपुष्करिणीम् , मकरिके !
मार्जय सितेन रसवतीचुल्लिचन्दनभस्मना समस्तमादर्शभवनम् , अनङ्गवति ! सज्जीकुरु 10 स्मरायतनबलिकर्म, तूर्णमभ्यीभवति मध्याहूनसमयः, न पश्यसि पुरः प्रातरेवाद्य गत्वा
स्वयमिह नीतस्य कस्याप्यतिमहीयसः क्षत्रियक्षितिपसूनोरागमनमार्गम् अवलोक्य पर्यङ्कादुत्थितामुभयतो विधूयमानधवलचामरकलापां देवीं तिलकमञ्जरीमिमांश्च शुद्धाचारदारिकाधिष्ठिताभिः शुद्धान्तदासीमिर्महानसादानीयानीय संचार्यमाणाननेकैः सूपकारैः प्रत्येकमा
रोपितविशिष्टतरसंस्कारान्मण्डपान्तरतिभूयसो भक्ष्यप्रकारान् ?' इत्यादिकानाकर्णयन्नधिकृता15 न्तर्वशिकजनस्य नानाविधालापान् , अग्रतः प्रचलितेन स्खलितगतिना विमलजलकुट्टिमेषु, निःशङ्ककृतपदक्रमेण गेहाङ्गणविलासदीर्घिकासु, उत्पाटितविततपरिवस्त्रापटेन पट्टशालासु, सत्वरोक्षिप्तदीप्तिपटेन वैडूर्यवलभीद्वारविवरेषु, स्फोटितोत्तमाङ्गेन स्फटिकस्तम्भोत्थालकेषु, ललाटनिहतोत्तानहस्तेन निर्यताजिरपथेषु, तर्जितातपत्रधारेण पद्मरागस प्रभारागपटला
तपेषु, जातदिङ्मोहेन बहलेन्द्रनीलमन्दिरच्छायान्धकारेषु, कृतसमुत्सारणेन स्वच्छमणि20 कुड्यान्तरितवपुषः प्रेष्यलोकस्य प्रस्तुतप्रणतिना संमुखीनादर्शभित्तिबिम्बिततनोः पूज्यवर्गस्य - सकलभूविभागज्ञेनाप्यपूर्वागतेनेव वेत्रधारीगणेनोपदिश्यमानसरणिः; उद्घाटितगवाक्षविवरोपलक्षमाणरुचिरमणिभित्तिचित्र च्युतमिव त्रिदशलोकात्सहायातसर्वगीर्वाणपरिषज्जन भोजनभवनमण्डपमगच्छम् ॥
३६६) तस्मिंश्च तत्कालमन्दाश्यानहरिचन्दनोपलेपे, सरसमन्दारकुसुमोपहार. 25 स्मेरमणिभुवि, मुषित इवोपरिनिबद्धशुचिविताने, पातालनगर इव संचरदनेकदर्वीकरपुरंध्रौ,
उत्पातजीमूतदुर्दिन इवासन्नहिमशिशिरवारिकरकोपलक्षणप्रभाशोभे, संभ्रान्तपरिजनाहृतमहाहमणिविष्टरोपविष्ठः; श्रुतागमनसाध्वसोत्तालतिलकमञ्जरीविसर्जिताभिः प्रधानसध्रीचीभिरागत्यनिवर्तितांह्रियुगलक्षालनादिसकलोचितक्रियः; समीपविन्यस्तविकटासनोपविष्टया मुहुर्मुहुः
स्वहस्तसंचारितापरापरस्वादुसुन्दरदुरुपलक्ष्यभक्ष्यप्रकारया मृगाङ्कलेखया सकौतुकप्रेमहास30 मुपनीतसितचारुचामराभिर्मणिचतुष्किकास्तम्भतलवर्तिनीभिश्चतसृभिश्चामीकरशिलायन्त्रपुत्रि: काभिः स्वैरस्वैरमुपवीज्यमानः; समासन्नपञ्जरजुषः प्रकृतिकलकण्ठस्य मङ्गलपाठकस्येव
पठतः शुकविहङ्गस्य प्रसङ्गागोगावलीवृतैः पुनः पुनर्जनितविस्मयो, विस्मयावहैकैकवस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org