________________
तिलकमञ्जरी
शोभामयीभिरिव सोन्दर्यमयीभिरिव मन्मथमयीभिरिव सौभाग्यमयीभिरिव विभाव्यमानाभिरप्सरोभिरिव मुनितपोभीतशतमखाज्ञया स्वर्गतोऽवतीर्णाभिर मृतजलदेवताभिरिव सुरापहरणशङ्कया क्षीरोदादपसृताभिः सततसंनिधिप्रीतदेवता वितीर्णचैतन्याभिः स्वर्विमानमणिशालभञ्जिकाभिरिव पुञ्जीभूताभिः, गङ्गातीर्थजलक्षालनापनीतस्थावरावस्थाभिरम्भोजिनीभिरिव रूपान्तरेण परिणताभिः, प्रतिपक्षखण्डनोद्विग्नाभिः शशिकलाभिरिव शरणाय खेचरेश्वरमाश्रिता- 5 भिर्नयनाभिरामरूपात्राप्तिकामाभिः सौदामिनीभिरिव प्रमदाभावमापन्नाभिरनवरतदिव्यजनप्रार्थनादर्शिताभि कल्पलताभिरिव मनुष्यलोकमा याताभिरन्धकारितदशाशैः केशपाशैर्दिवापि प्रियजनाभिसरणाय प्रदोषभित्र सूत्रयन्तीभिर्मुखमण्डलैश्चन्द्रबिम्बावस्कन्दमिव कल्पयन्तीभिरिन्दीवर दलदाम सुन्दरैर्नयनविक्षेपैर्जगज्जयाय मन्मथमिवाज्ञापयन्तीभिः शोषिताधरबिम्बताम्बूलद्रवैर्गतिश्रमश्वासपवनैस्तत्कालमन्दरागाग्निमिव संदीपयन्तीभिः कुन्दशुचिभिः परिहास - 10 स्मितैः स्तनतटोष्मभस्मीकृतरुचो मुक्ताकलापानिव धवलयन्तीभिर्गतिवशोपलक्षमाणायतिभिस्त्रित्र लिलेखाभिरप्रत्यज्ञदर्शन मु दर देशमिवानुमापयन्तीभिः संनिहितोरुनाभिभिः श्रोणिचकै रथवरूथिनीमिव यौवनयुवराजस्य योजयन्तीभिर्विलासम सुणैश्चरणविन्यासैर्भवनहंसकानिव गतिक्रमं ग्राहयन्तीभिरने करागैर्देवाङ्गनिवसनांशुभिस्त्रिदशचापाद्वैतमिव दर्शयन्तीभिप्राणलेपिभिरनुलेपनामादैर्नन्नमिवाकयन्तीभिः सरोभिरिव सारसनादिभिर्भूषणगणैर्मुखरिताशामुखाभिः सर्वतो विलासिनीभिः समाकुलम्, असुरकन्यापुरप्रवेशविवरमिव सततसंनिहित- 15 द्वाररक्षोभयं सुग्रीवबलमिव सलीलमारुतिगवाक्षगवयोपनीत कुपितरामावलेपं, शरन्नभ इव स्वातिचित्रोदयानन्दित निशान्तप्रबुद्धलोकं, विवाहमण्डपमिव दृश्यमानाभिनवशालाजिरसंस्कारम्, अपुराणमप्युपलभ्यमानविविधवामन किरात चरितम् उशुकाचकलशचकाक्रान्तविकटोदग्रकूटैस्तुपार गिरिशिरोभिरिव लग्नस्फारवत्राग्निविस्फुलिङ्गैरद भ्रसरलार्जुनसालगुप्तभिः सप्तभूमैः कुमारीपुरप्रासादलक्षः समन्ततः परिक्षिप्तपार्श्वम्, अदृश्यमान पुरुष - 20 प्रचारतया स्त्रीराज्यमण्डलमिव विजित्यानीतमखिलं, तिलकमञ्जरीमन्दिरमपश्यम् ||
2
For Private & Personal Use Only
२१७
३६५) प्रविश्य च स्तोकमुपसृतः; तत्कालकर्तव्यसत्वरस्य विसर्जयत इतस्ततो दृष्टिगोचरायातमन्तःपुरपुरंधिलोकम्, आकुला कुलस्य - 'वरुणिके ! वारय निकटनाटयशालाशैलूषकुलसंगीत कलहम्, कोकिले ! विधेहि स्वविषयादुपेयुषः किंनरराजकुल चारणकुलस्य स्वरसंदेहविच्छेदम्, विहङ्गिके ! प्रहिणु यानाशतिरि क्ती भूतचिरसंचितद्रविणविद्राणमदरिद्री - 25 कृत्य वैश्रवणयाचकघृन्दम्, मन्दारिके ! कारय गन्धर्वपतिरङ्गनटयाः कामकोटेः पट्टबन्धम्, सुन्दरि ! निधेहि गन्धोदकनदीषु दिव्यानि कठिनकर्पू (काष्ठक्लृप्तानि यानपात्राणि, पत्रलतिके ! पुषाण पुरुषरूपवन्ध्येन स्वविचित्रेण देवीविचित्रवलभिकाभित्तिशोभासौभाग्यम्, द्रमिडि ! दापय क्रीडाद्रिकन्दराशबरमिथुनानामखण्डानि कल्पतरुचीरचण्डातकानि, शिखण्डिके ! शेखकुरु पण्डको पवन षण्डजाताः पारिजातसुमनसः सिंहिके ! समुपसंहर वेणुवीणादिवाद्यविनो- 30 दम्, विनयवति ! नायमवसरो नयद्यूतस्य, कलकण्ठि ! तिष्ठतु तावदेषा सुभाषितपाठगोष्ठी,
२८
Jain Education International
www.jainelibrary.org